विश्वास-प्रस्तुतिः - ९६१
विगलन्तीं दधे यावद्दोष्णा जघनमेखलाम् ।
तावत् कलापवलयं विवेद गलितं न सा ॥९६१॥
मूलम् - ९६१
विगलन्तीं दधे यावद्दोष्णा जघनमेखलाम् ।
तावत् कलापवलयं विवेद गलितं न सा ॥९६१॥
रुद्रटस्य ।
विश्वास-प्रस्तुतिः - ९६२
स्मरेण सन्तक्ष्य वृथैव बाणैर्
लावण्यशेषां कृअताम् अनायै ।
अनङ्गताम् अप्य् अयम् आप्यमानः
स्पर्धां न सार्धं विजहासि तेन ॥९६२॥
मूलम् - ९६२
स्मरेण सन्तक्ष्य वृथैव बाणैर्
लावण्यशेषां कृअताम् अनायै ।
अनङ्गताम् अप्य् अयम् आप्यमानः
स्पर्धां न सार्धं विजहासि तेन ॥९६२॥
कविपण्डितश्रीहर्षस्य । (न्च् ३।१०९)
विश्वास-प्रस्तुतिः - ९६३
सर्वात्मना प्रहरतापि मनोभवेन
सन्दर्शितं परमकौतुकम् आयताक्ष्याः ।
लावण्यविभ्रमविलासविचेष्टितानि
नो खण्डितानि गमिता च तनुस् तनुत्वम् ॥९६३॥
मूलम् - ९६३
सर्वात्मना प्रहरतापि मनोभवेन
सन्दर्शितं परमकौतुकम् आयताक्ष्याः ।
लावण्यविभ्रमविलासविचेष्टितानि
नो खण्डितानि गमिता च तनुस् तनुत्वम् ॥९६३॥
भासोकस्य । (स्व् १०८८)
विश्वास-प्रस्तुतिः - ९६४
एकां कृत्वा तनुम् अनुपमां चन्द्रचूडेन सार्धं
यस् त्यक्तो’र्धः सततविरहक्लेशभागी भवान्या ।
तेनाङ्गानां रचितम् उचितं संविभक्तेन कर्तुं
नूनं दूनां तनुतनुलतां निर्ममे तां विरिञ्चिः ॥९६४॥
मूलम् - ९६४
एकां कृत्वा तनुम् अनुपमां चन्द्रचूडेन सार्धं
यस् त्यक्तो’र्धः सततविरहक्लेशभागी भवान्या ।
तेनाङ्गानां रचितम् उचितं संविभक्तेन कर्तुं
नूनं दूनां तनुतनुलतां निर्ममे तां विरिञ्चिः ॥९६४॥
आचार्यगोपीकस्य ।
विश्वास-प्रस्तुतिः - ९६५
अपनिद्रमधूकपाण्डुरा
सुदृशो’दृश्यत गण्डमण्डली ।
गमिताश्रुजलप्लवैर् इव
क्रशिमाकीर्णतयापि निम्नताम् ॥९६५॥
मूलम् - ९६५
अपनिद्रमधूकपाण्डुरा
सुदृशो’दृश्यत गण्डमण्डली ।
गमिताश्रुजलप्लवैर् इव
क्रशिमाकीर्णतयापि निम्नताम् ॥९६५॥
शिल्हणस्य ।