०९५ स्वप्नः

विश्वास-प्रस्तुतिः - ९४६

जाने सा गगनप्रसूनकलिकेलिकेवात्यन्तम् एवासती
तत्सम्भोगरसाश् च तत्परिमलोल्लासा इवासत्तमाः ।
स्वप्नेन द्विषतेन्द्रजालम् इव मे सन्दर्शिता केवलं
चेतस् तत्परिरम्भणाय तद् अपि स्फीतस्पृहं ताम्यति ॥९४६॥

मूलम् - ९४६

कस्यचित् । (सु।र। ७६३)

विश्वास-प्रस्तुतिः - ९४७

स्वप्नैर् प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षः
श्रोत्रे गीतामृताब्धौ त्वग् अपि ननु तनूमञ्जरीसौकुमार्ये ।
नासा श्वासाधिवासे’धरम् अधुनि रसज्ञा चरितेषु चित्तं
तन् नस् तन्वङ्गि कैश्चिन् न करणहरिणैर् वागुरालङ्घितासि ॥९४७॥

मूलम् - ९४७

कविपण्डितश्रीहर्षस्य (न्च् ८।१०७)

विश्वास-प्रस्तुतिः - ९४८

स्वप्न प्रसीद भगवन् पुनर् एकवारं
सन्दर्शय प्रियतमां क्षणमात्रम् एव ।
दृष्ट्वा सती निविडबाहुनबन्धलग्नं
तत्रैव मां नयति सा यदि वा न याति ॥९४८॥

मूलम् - ९४८

स्वप्न प्रसीद भगवन् पुनर् एकवारं
सन्दर्शय प्रियतमां क्षणमात्रम् एव ।
दृष्ट्वा सती निविडबाहुनबन्धलग्नं
तत्रैव मां नयति सा यदि वा न याति ॥९४८॥

कालिदासस्य । (सु।र। ८०६)

विश्वास-प्रस्तुतिः - ९४९

क्व पेयं ज्योत्स्नाम्भो वदत विसवल्लीसरणिभिर्
मृणालीतन्दूभ्यः सिचयरचना कुत्र भवतु ।
क्व वा पारीमेयो बत बकुलदाम्नां परिमलः
कथं स्वप्नः साक्षात् कुवलयदृशं कल्पयतु ताम् ॥९४९॥

मूलम् - ९४९

राजशेखरस्य । (स।क।आ। २।६०, सु।र। ५२८)

विश्वास-प्रस्तुतिः - ९५०

तत् तादृक् कुचकुम्भभङ्गुरम् उरस् तच् च त्रपामन्थरं
चक्षुः प्रेमगुरुर् मनोभवसमुद्भेदः स वामभ्रुवः ।
रे स्वप्नः प्रलभापनीतदयितादोर्वल्लीबन्धस्य किं
सर्वं नीतवतो’हम् एव भवतो दैवाद् अभूवं गुरुः ॥९५०॥

मूलम् - ९५०

आचार्यगोपीकस्य ।