विश्वास-प्रस्तुतिः - ९३६
क्रमसरलितकण्ठप्रक्रमोल्लासितोरस्
तरलितबलिरेखासूत्रसर्वाङ्गम् अस्याः ।
स्थितमतिचिरम् उच्चैर् अग्रपादाङ्गुलीभिः
करकलितसखीकं मां दिदृक्षोः स्मरामि ॥९३६॥
मूलम् - ९३६
क्रमसरलितकण्ठप्रक्रमोल्लासितोरस्
तरलितबलिरेखासूत्रसर्वाङ्गम् अस्याः ।
स्थितमतिचिरम् उच्चैर् अग्रपादाङ्गुलीभिः
करकलितसखीकं मां दिदृक्षोः स्मरामि ॥९३६॥
कालिदासस्य । (वि।शा।भ। ३।३, सु।र। ५२३)
विश्वास-प्रस्तुतिः - ९३७
तत् तस्य निःश्वासकृतानुयात्रैः
सलीलम् आकुञ्चितपक्ष्मपत्रैः ।
नेत्रद्विरेफैर् वदनारविन्दम्
आस्वादयन्त्यो लिलिहुस् तरुण्यः ॥९३७॥
मूलम् - ९३७
तत् तस्य निःश्वासकृतानुयात्रैः
सलीलम् आकुञ्चितपक्ष्मपत्रैः ।
नेत्रद्विरेफैर् वदनारविन्दम्
आस्वादयन्त्यो लिलिहुस् तरुण्यः ॥९३७॥
कस्यचित् ।
विश्वास-प्रस्तुतिः - ९३८
भवनभुवि सृजन्तस् तारहारावतारान्
दिशि दिशि विदिशन्तः केतकानां कुटुम्बम् ।
वियति च रचयन्तश् चन्द्रिकां मुग्धमुग्धां
प्रतिनयननिपाताः सुभ्रुवो विभ्रमन्ति ॥९३८॥
मूलम् - ९३८
भवनभुवि सृजन्तस् तारहारावतारान्
दिशि दिशि विदिशन्तः केतकानां कुटुम्बम् ।
वियति च रचयन्तश् चन्द्रिकां मुग्धमुग्धां
प्रतिनयननिपाताः सुभ्रुवो विभ्रमन्ति ॥९३८॥
राजशेखरस्य । (वि।शा।भ। ४।१७, सु।र। ५२१)
विश्वास-प्रस्तुतिः - ९३९
तरत्तारं तावत् प्रथमम् अथ चित्रार्पितम् इव
क्रमाद् एवापाङ्गं सहजम् इव लीलामुकुलितम् ।
ततः किञ्चित् क्षुण्णं तद् अनु घनबाष्पाम्बुलहरी
परिक्षामं चक्षुः पततु मयि तस्या मृगदृशः ॥९३९॥
मूलम् - ९३९
तरत्तारं तावत् प्रथमम् अथ चित्रार्पितम् इव
क्रमाद् एवापाङ्गं सहजम् इव लीलामुकुलितम् ।
ततः किञ्चित् क्षुण्णं तद् अनु घनबाष्पाम्बुलहरी
परिक्षामं चक्षुः पततु मयि तस्या मृगदृशः ॥९३९॥
वीर्यमित्रस्य । (सु।र। ४६७, सू।मु। ४३।१२)
विश्वास-प्रस्तुतिः - ९४०
यद्व्रीडाभरभुग्नम् आस्यकमलं विन्यस्य जानूपरि
प्रोद्यत्पक्ष्मनिरीक्षितं विजयते सप्रेम वामभ्रुवः ।
हास्यश्रीलवलाञ्छिता च यद् असाव् अस्याः कपोलस्थली
लोलल्लोचनगोचरं व्रजति स स्वर्गाद् अपूर्वो विधिः ॥९४०॥
मूलम् - ९४०
यद्व्रीडाभरभुग्नम् आस्यकमलं विन्यस्य जानूपरि
प्रोद्यत्पक्ष्मनिरीक्षितं विजयते सप्रेम वामभ्रुवः ।
हास्यश्रीलवलाञ्छिता च यद् असाव् अस्याः कपोलस्थली
लोलल्लोचनगोचरं व्रजति स स्वर्गाद् अपूर्वो विधिः ॥९४०॥
प्रद्युम्नस्य । (सु।र। ४७०)