विश्वास-प्रस्तुतिः - ९२१
प्रहरविरतौ मध्ये वाह्नस् ततो’पि परे’थवा
किम् उत सकले जाते वाह्निप्रिय त्वम् इहैष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥९२१॥
मूलम् - ९२१

[अमरु १२; सु।र। ५३२, स्भ् १०४८, शा।प। ३३८९, सू।मु। ३७।७]
विश्वास-प्रस्तुतिः - ९२२
लग्ना नांशुकपल्लवे भुजलता न द्वारदेशे’पिता
नो वा पादतले तया निपतितं तिष्ठेति नोक्तं वचः ।
काले केवलम् अम्बुदातिमलिने गन्तुं प्रवृत्तः शठः
तन्व्या बाष्पजलौघकल्पितनदीपूरेण बद्धः प्रियः ॥९२२॥
मूलम् - ९२२

[अमरु ६२, स्भ् १०५७, शा।प। ३३८८, सू।मु। ३७।५]
विश्वास-प्रस्तुतिः - ९२३
मा याहीति निवारणं न च कृतं नैवावधिर् याचितो
नो बाष्पाखुकणावलीमलिनतां नीता कपोलस्थली ।
अर्घ्यव्याजम् उपेतया दयितया सम्प्रस्थितस्याद्य मे
यात्राभङ्गकरी करे विनिहिता चौती नवा मञ्जरी ॥९२३॥
मूलम् - ९२३

कस्यचित् ।
विश्वास-प्रस्तुतिः - ९२४
दूरं सुन्दरि निर्गतासि भवनाद् एष द्रुमः क्षीरवान्
अस्माद् एव निवर्त्यताम् इति शनैर् उक्ताध्वगेन प्रिया ।
तस्या मन्युभरोच्छ्वसत्कुचयुगाभोगस्फुटत्कञ्चुकं
वीक्ष्योरःस्थलम् अश्रुपूरितदृशा प्रस्थानभङ्गः कृतः ॥९२४॥
मूलम् - ९२४

तरणिनन्दिनः । (स्व्। १०६३, शा।प। ३३९०)
विश्वास-प्रस्तुतिः - ९२५
यामीत्य् उक्तवति व्रजेत्य् अभिहितं त्रस्तं विमुक्तासने
द्वित्राण्य् एव पदानि गच्छति गलद्बाष्पान्धम् आलोकितम् ।
निर्याते दयिते’श्रुपूरितदृशा तन् मुग्धयानुष्ठितं
व्यासेधस्थितिपत्रकं प्रवसतां यज्जातम् आजन्मनः ॥९२५॥
मूलम् - ९२५