विश्वास-प्रस्तुतिः - ९०६
सुप्ते ग्रामे नदति जलदे शान्तसम्पातरम्यं
पान्थेनात्मव्यसनकरुणोदस्रु गीतं निशीथे ।
स्फीतोत्कण्ठापरिगतधिया प्रोषितस्त्रीजनेन
ध्यानावेशस्तिमितनयनं श्रूयते रुद्यते च ॥९०६॥
मूलम् - ९०६

कस्यचित् ।
विश्वास-प्रस्तुतिः - ९०७
मागाः पान्थ पथामुना यदि तव भ्रातः प्रियं जीवितं
यच् चूताकृतिर् अत्र तिष्ठति महारौद्रः पुरो राक्षसः ।
येनोद्यन्मकरन्दमुग्धमधुपव्याहारझङ्कारिणा
पान्थानाम् अधुनैव निर्घृणधिया सार्थो हतः श्रूयते ॥९०७॥
मूलम् - ९०७

कस्यापि ।
विश्वास-प्रस्तुतिः - ९०८
उपपरिसरं गोदावर्याः परित्यजताध्वगाः
सरणिम् अपरो मार्गस् तावद् भवद्भिर् इहेक्ष्यताम् ।
इह हि विहितो रक्ताशोकः कयापि हताशया
चरणनलिनन्यासोदञ्चन् नवाङ्कुरकञ्चुकः ॥९०८॥
मूलम् - ९०८

विश्वास-प्रस्तुतिः - ९०९
कस्मात् त्वं क्व नु दृश्यते सुखमुखं क्वास्ते’न्धकारः परं
क्व स्त्रीषु स्मरधूमकेतुरुदितो दृष्टा युवानः क्व ते ।
गन्ता क्व क्व च पञ्चमः क्व णसकृत् क्वात् सङ्कुरो निद्गतः
क्वानन्दैकरसोदयः क्व नु सती कैवाध्वगस् तत् कथा ॥९०९॥
मूलम् - ९०९

विश्वास-प्रस्तुतिः - ९१०
ग्रामे’स्मिन् पथिकाय पान्थ वसतिर् नैवाधुना दीयते
पश्यात्रैव विहारमण्डपतले प्रसुप्तो युवा ।
तेनोद्गीय खलेन गर्जति घने स्मृत्वा प्रिया तत्कृतं
येनाद्यापि करङ्कदण्डपतनाशङ्की जनस् तिष्ठति ॥९१०॥
मूलम् - ९१०

कस्यचित् । (शा।प। ३८९३, सु।र। १६६१)