०८३ धृष्टनायकः

विश्वास-प्रस्तुतिः - ८८६

शतं वारान् उक्तः प्रियसखि वचोभिः स परुषैः
सहस्रं निर्धूतश् चरणपतितः पार्ष्णिहतिभिः ।
कियत् कृत्वो बद्धाः पुनर् इह न वेद्मि भ्रुकुटयस्
तथापि क्लिश्यन् मां क्षणम् अपि न धृष्टो रहयति ॥८८६॥

मूलम् - ८८६

कस्यचित् । (स।क।आ। ४।१८०, व्। ३७१)

विश्वास-प्रस्तुतिः - ८८७

वाचो वाग्मिनि किं तवाद्य परुषाः सुभ्रु भ्रुवोर् विभ्रमैर्
विश्रान्तं कुत एव लोलनयने किं लोहिते लोचने ।
स्वेदः किं नु घनस्तनि स्तनतटे मुक्ताफलानां तुलां
धत्ते मुञ्च रुषं ममात्र दयिते लेशो’पि नास्त्य् आगसः ॥८८७॥

मूलम् - ८८७

कस्यचित् । (शृ।ति। २।३६अ, शा।प। ३५७९, सू।मु। ५८।६)

विश्वास-प्रस्तुतिः - ८८८

जल्पन्त्याः परुषं रुषा मम बलाच् चुम्बत्य् असाव् आननं
मृद्गात्याशु करं करेण बहुशः सन्ताड्यमानो’पि सन् ।
आलीनां पुरतो दधाति शिरसा पादप्रहारांस् ततो
नो जाने सखि साम्प्रतं प्रणयिएन् कुप्यामि तस्मै कथम् ॥८८८॥

मूलम् - ८८८

रुद्रटस्य । (शृ।ति। १।२८अ)

विश्वास-प्रस्तुतिः - ८८९

दृष्टा मुष्टिभिर् आहता हृदि नखैर् आचोटिता पार्श्वयोर्
आकृष्टा कवरीषु गाढम् अधरे शीत्कुर्वती खण्डिता ।
त्वत्कृत्यं त्वदगोचरे’पि हि कृतं सर्वं मयैवाधुना
माम् आज्ञापय किं करोमि सरले भूयः सपत्न्यास् तव ॥८८९॥

मूलम् - ८८९

कस्यचित् । (सु।र। ६७७)

विश्वास-प्रस्तुतिः - ८९०

दासे कृतागसि भवेद् उचितः प्रभूणां
पादप्रहार् इति मानिनि नातिदूये ।
उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्
यद् भिद्यते पदम् इदं तव सा व्यथा मे ॥८९०॥

मूलम् - ८९०

सत्यबोधस्य । (सा।द। उन्देर् १०।४६, शा।प। ३६५७, सू।मु। ५७।११)