०८२ शठनायकः

विश्वास-प्रस्तुतिः - ८८१

दृष्ट्वैकासनसंस्ह्तिते प्रियतमे पश्चाद् उपेत्यादराद्
एकस्या नयने पिद्याय विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रिमकन्धरः सपुलकः प्रेमोल्लसन्मानसाम्
अन्तर्हासलसत्कपोलफलकां धूर्तो’परां चुम्बति ॥८८१॥

मूलम् - ८८१

[अमरु १६; सु।र। ६०३, स्व्। २०६९, शा।प। ३५७५]

विश्वास-प्रस्तुतिः - ८८२

कोपात् कोमललोलबाहुलतिकापाशेन बद्धा दृढं
नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः ।
भूयो’प्य् एवम् इति स्खलन् मृदुगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निह्नुतिपरः प्रेयान् रुदत्या हसन् ॥८८२॥

मूलम् - ८८२

[अमरु ९, सू।मु। ८५।३, स्भ् १३५१]

विश्वास-प्रस्तुतिः - ८८३

एकप्रियाचरणपद्मपरीष्टिजात
क्लेशस्य मे हृदयम् उत्तरलीचकार ।
उद्भिन्ननिर्भरमनोभवभावमुग्ध
नानाङ्गनावदनचन्द्रमसां दिदृक्षा ॥८८३॥

मूलम् - ८८३

एकप्रियाचरणपद्मपरीष्टिजात
क्लेशस्य मे हृदयम् उत्तरलीचकार ।
उद्भिन्ननिर्भरमनोभवभावमुग्ध
नानाङ्गनावदनचन्द्रमसां दिदृक्षा ॥८८३॥

लक्ष्मणसेनदेवस्य ।

विश्वास-प्रस्तुतिः - ८८४

कोपात् किञ्चिद् उपानतो’पि रभसाद् आकृष्य केशेष्व् अलं
नीत्वा मोहनमन्दिरं दयितया हारेण बद्ध्वा दृढम् ।
भूयो यास्यसि तद्गृहान् इति मुहुः कण्ठार्धरुद्धाक्षरं
जल्पन्त्या श्रवणोत्पलेन सुकृती कश्चिद् रहस् ताड्यते ॥८८४॥

मूलम् - ८८४

कस्यचित् । (शा।प। ३५६७, सू।मु। ८५।२)

विश्वास-प्रस्तुतिः - ८८५

सा बाढं भवतेक्षितेति निविडं संयम्य बाह्वोः स्रजा
भूयो द्रक्ष्यसि तां शठेति परुषं सन्तर्ज्य सन्तर्ज्य च ।
आलीनां पुर एव निह्नुतिपरः कोपाद् रणन्नूपुरं
मानिन्याश् चरणप्रहारविधिना प्रेयान् अशोकीकृतः ॥८८५॥

मूलम् - ८८५

कस्यचित् ।