०८० अनुकूलनायकः

विश्वास-प्रस्तुतिः - ८७१

सदा चाटून् जल्पन् सततम् उपहारार्पितमना
मुखं पश्यन् नित्यं सततम् अविभिन्नाञ्जलिपुटः ।
अनिच्छन्न् इच्छन् वा क्षणम् अपि न पार्श्वं त्यजति यः
स किं कामी स्त्रीणाम् अयम् अशरणो भृत्यपुरुषः ॥८७१॥

मूलम् - ८७१

सदा चाटून् जल्पन् सततम् उपहारार्पितमना
मुखं पश्यन् नित्यं सततम् अविभिन्नाञ्जलिपुटः ।
अनिच्छन्न् इच्छन् वा क्षणम् अपि न पार्श्वं त्यजति यः
स किं कामी स्त्रीणाम् अयम् अशरणो भृत्यपुरुषः ॥८७१॥

श्रीमल्लक्ष्मणसेनदेवस्य ।

विश्वास-प्रस्तुतिः - ८७२

सा बाला वयम् अप्रगल्भमनसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत् पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैर् अन्यजनाश्रितैर् अपटवो जाताः स्म इत्य् अद्भुतम् ॥८७२॥

मूलम् - ८७२

सा बाला वयम् अप्रगल्भमनसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत् पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैर् अन्यजनाश्रितैर् अपटवो जाताः स्म इत्य् अद्भुतम् ॥८७२॥

[अमरु ३०, सु।र। ४८१, स्भ् १३४६, स्क् ३।४२]

विश्वास-प्रस्तुतिः - ८७३

सालक्तकेन नवपल्लवकोमलेन
पादेन नूपुरवता मदनालसेन ।
यस् ताड्यते दयितया प्रणयाराधात्
सो’ङ्गीकृतो भगवता मकरध्वजेन ॥८७३॥

मूलम् - ८७३

सालक्तकेन नवपल्लवकोमलेन
पादेन नूपुरवता मदनालसेन ।
यस् ताड्यते दयितया प्रणयाराधात्
सो’ङ्गीकृतो भगवता मकरध्वजेन ॥८७३॥

[अमरु ५२; सू।मु। ८५।१]

विश्वास-प्रस्तुतिः - ८७४

सामन्तमौलिमणिरञ्जितपादपीठम्
एकातपत्रम् अवनेर् न तथाधिपत्यम् ।
अस्याः सखे चरणयोर् अहम् अद्य कान्तम्
आज्ञाकरत्वम् अधिगम्य यथा कृतार्थः ॥८७४॥

मूलम् - ८७४

सामन्तमौलिमणिरञ्जितपादपीठम्
एकातपत्रम् अवनेर् न तथाधिपत्यम् ।
अस्याः सखे चरणयोर् अहम् अद्य कान्तम्
आज्ञाकरत्वम् अधिगम्य यथा कृतार्थः ॥८७४॥

कस्यचित् । (विक्। ३।४७)

विश्वास-प्रस्तुतिः - ८७५

हारो यत्र व्यवधिरचना त्वं तु येनापराद्धो
रोमोद्भेदो’प्य् अशिथिलतरालिङ्गनेष्व् अन्तरायः ।
यस्मिन् वाञ्छा विरमति मिथो नार्धनारीश्वरत्वे
तद् दाम्पत्यं विभजतु कथङ्कारम् अन्या मृगाक्षी ॥८७५॥

मूलम् - ८७५

हारो यत्र व्यवधिरचना त्वं तु येनापराद्धो
रोमोद्भेदो’प्य् अशिथिलतरालिङ्गनेष्व् अन्तरायः ।
यस्मिन् वाञ्छा विरमति मिथो नार्धनारीश्वरत्वे
तद् दाम्पत्यं विभजतु कथङ्कारम् अन्या मृगाक्षी ॥८७५॥

गोवर्धनस्य ।