०७९ नायिकाक्रीडनम्

विश्वास-प्रस्तुतिः - ८६६

अमन्दमणिनूपुरप्रचुरचारुचारक्रमं
झणज्झणितमेखलास्खलिततारहारच्छटम् ।
इदं तरलकङ्कणावलिविशेषवाचालितं
मनो हरति सुभ्रुवः किम् अपि कन्दुकक्रीडितम् ॥८६६॥

मूलम् - ८६६

अमन्दमणिनूपुरप्रचुरचारुचारक्रमं
झणज्झणितमेखलास्खलिततारहारच्छटम् ।
इदं तरलकङ्कणावलिविशेषवाचालितं
मनो हरति सुभ्रुवः किम् अपि कन्दुकक्रीडितम् ॥८६६॥

राजशेखरस्य । (वि।शा।भ। २।६, सु।र। ५२६, सू।मु। ६६।६)

विश्वास-प्रस्तुतिः - ८६७

अस्याः स्वेदाम्बुबिन्दुच्युततिलकतया व्यक्तवक्त्रेन्दुकान्तेः
पर्यायात् कन्दुकस्य प्रहणनगणना केलिवाचालितायाः ।
उत्पातोत्तालतालक्रमनमितदृशस् ताडनोत्तालताली
लीलाख्या मौनिताः स्म प्रतिपदम् अमुना कन्दुकक्रीडितेन ॥८६७॥

मूलम् - ८६७

तस्यैव । (वि।शा।भ। २।८)

विश्वास-प्रस्तुतिः - ८६८

चेलाञ्चलेन चलहारलताप्रकाण्डै
र्वेणीगुणेन च बलाद् वलयीकृतेन ।
स्वेच्छाहितभ्रमरकभ्रमिमण्डलीभि
रन्यं रसं रचयतीव चिरं नतभ्रूः ॥८६८॥

मूलम् - ८६८

चेलाञ्चलेन चलहारलताप्रकाण्डै
र्वेणीगुणेन च बलाद् वलयीकृतेन ।
स्वेच्छाहितभ्रमरकभ्रमिमण्डलीभि
रन्यं रसं रचयतीव चिरं नतभ्रूः ॥८६८॥

तस्यैव । (वि।शा।भ। २।९, सु।र। ५२८)

विश्वास-प्रस्तुतिः - ८६९

शिखामणिर् इतोरुणस् तिलकयत्य् अयं मेदिनी
मितो गलितगुम्फनास्तरलवेणिवान्ताः स्रजः ।
इतश् छुरितम् अन्तरा त्रुटितहारमुक्ताफलै
रितः श्रवणपाशतः कमलपत्रम् आस्ते च्युतम् ॥८६९॥

मूलम् - ८६९

शिखामणिर् इतोरुणस् तिलकयत्य् अयं मेदिनी
मितो गलितगुम्फनास्तरलवेणिवान्ताः स्रजः ।
इतश् छुरितम् अन्तरा त्रुटितहारमुक्ताफलै
रितः श्रवणपाशतः कमलपत्रम् आस्ते च्युतम् ॥८६९॥

तस्यैव । (वि।शा।भ। २।१३)

विश्वास-प्रस्तुतिः - ८७०

च्युतकर्णशिरोरुहावतंसै
र्निविडस्वेदजलार्द्रगण्डलेखैः ।
असकृन्मणिकुट्टिमोदरे सा
दिवसं कन्दुककेलिभिर् निनाय ॥८७०॥

मूलम् - ८७०

च्युतकर्णशिरोरुहावतंसै
र्निविडस्वेदजलार्द्रगण्डलेखैः ।
असकृन्मणिकुट्टिमोदरे सा
दिवसं कन्दुककेलिभिर् निनाय ॥८७०॥

मुञ्जस्य ।