विश्वास-प्रस्तुतिः - ८६१
निहिता मणिमेखला नितम्बे
तरला हारलता कुचद्वये च ।
अनयाहम् अलङ्कृतो न कस्मा
दिति तस्यास् तनुताम् इयाय मध्यम् ॥८६१॥
मूलम् - ८६१
निहिता मणिमेखला नितम्बे
तरला हारलता कुचद्वये च ।
अनयाहम् अलङ्कृतो न कस्मा
दिति तस्यास् तनुताम् इयाय मध्यम् ॥८६१॥
कुञ्जस्य ।
विश्वास-प्रस्तुतिः - ८६२
अहं तनीयानतिकोमलश् च
स्तनद्वयं वोढुम् अलं न तावत् ।
इतीव तत्संवहनार्थम् अस्या
वलित्रयं पुष्यति मध्यभागः ॥८६२॥
मूलम् - ८६२
अहं तनीयानतिकोमलश् च
स्तनद्वयं वोढुम् अलं न तावत् ।
इतीव तत्संवहनार्थम् अस्या
वलित्रयं पुष्यति मध्यभागः ॥८६२॥
धोयीकस्य ।
विश्वास-प्रस्तुतिः - ८६३
लावण्यपुण्यसलिलौघमहार्घतीर्थे
तस्या वलित्रय तरङ्गिणि मध्यदेशे ।
निर्वाणम् ऋच्छति मनः सहजैकतान
मस्मिन् मुहुः किम् अनुभावयतीव दृष्टिः ॥८६३॥
मूलम् - ८६३
लावण्यपुण्यसलिलौघमहार्घतीर्थे
तस्या वलित्रय तरङ्गिणि मध्यदेशे ।
निर्वाणम् ऋच्छति मनः सहजैकतान
मस्मिन् मुहुः किम् अनुभावयतीव दृष्टिः ॥८६३॥
हरेः ।
विश्वास-प्रस्तुतिः - ८६४
तनुत्वरमणीयस्य मध्यस्य च भुजस्य च ।
अभवन् नितरां तस्या वलयः कान्तिबद्धये ॥८६४॥
मूलम् - ८६४
तनुत्वरमणीयस्य मध्यस्य च भुजस्य च ।
अभवन् नितरां तस्या वलयः कान्तिबद्धये ॥८६४॥
कस्यचित् । (स।क।आ। २।१५९, सू।मु। ५३।६४)
विश्वास-प्रस्तुतिः - ८६५
कुचकलशमहिम्ना श्रोणिभारप्रथिम्ना
विहितनिविडपीडास् तां द्वयीम् उद्विषन्तः ।
चिरम् उदरतरङ्गश्रेणिमार्गेण यासां
भ्रुकुटिम् इव वहन्ति क्रोधतो मध्यभागाः ॥८६५॥
मूलम् - ८६५
कुचकलशमहिम्ना श्रोणिभारप्रथिम्ना
विहितनिविडपीडास् तां द्वयीम् उद्विषन्तः ।
चिरम् उदरतरङ्गश्रेणिमार्गेण यासां
भ्रुकुटिम् इव वहन्ति क्रोधतो मध्यभागाः ॥८६५॥
राजशेखरस्य ।