विश्वास-प्रस्तुतिः - ८५६
रोमावली कनकचम्पकदामगौर्या
लक्ष्मीं तनोति नवयौवनसम्भृतश्रीः ।
त्रैलोक्यलब्धविजयस्य मनोभवस्य
सौर्वर्णपट्टलिखितेव जयप्रशस्तिः ॥८५६॥
मूलम् - ८५६
रोमावली कनकचम्पकदामगौर्या
लक्ष्मीं तनोति नवयौवनसम्भृतश्रीः ।
त्रैलोक्यलब्धविजयस्य मनोभवस्य
सौर्वर्णपट्टलिखितेव जयप्रशस्तिः ॥८५६॥
कस्यचित् । (सु।र। ३९४)
विश्वास-प्रस्तुतिः - ८५७
रोमावली सत्रिवली तरङ्ग
नाभीह्रदस्योपरि राजते’स्याः ।
मुखेन्दुभीतस्तनचक्रवाक
वक्त्रच्युता शैवलमञ्जरीव ॥८५७॥
मूलम् - ८५७
रोमावली सत्रिवली तरङ्ग
नाभीह्रदस्योपरि राजते’स्याः ।
मुखेन्दुभीतस्तनचक्रवाक
वक्त्रच्युता शैवलमञ्जरीव ॥८५७॥
धोयीकस्य ।
विश्वास-प्रस्तुतिः - ८५८
दग्धे मनोभवतरौ बाला कुचकुम्भसम्भृतैर् अमृतैः ।
त्रिवलीकृतालबाला जाता रोमावलीवल्ली ॥८५८॥
मूलम् - ८५८
दग्धे मनोभवतरौ बाला कुचकुम्भसम्भृतैर् अमृतैः ।
त्रिवलीकृतालबाला जाता रोमावलीवल्ली ॥८५८॥
भासस्य ।
विश्वास-प्रस्तुतिः - ८५९
उद्धृतः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितमोष्ठपल्लवम् इदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापम् अधिकं रोमावली केन मे ॥८५९॥
मूलम् - ८५९
उद्धृतः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितमोष्ठपल्लवम् इदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापम् अधिकं रोमावली केन मे ॥८५९॥
कस्यचित् । (स्व् १३५४)
विश्वास-प्रस्तुतिः - ८६०
हरति रतिपतेर् नितम्बबिम्ब
स्तनतटचङ्क्रमसङ्क्रमस्य लक्ष्मीम् ।
त्रिवलिभवतरङ्गनिम्ननाभी
ह्रदपदवीम् अधिरोमराजिर् अस्याः ॥८६०॥
मूलम् - ८६०
हरति रतिपतेर् नितम्बबिम्ब
स्तनतटचङ्क्रमसङ्क्रमस्य लक्ष्मीम् ।
त्रिवलिभवतरङ्गनिम्ननाभी
ह्रदपदवीम् अधिरोमराजिर् अस्याः ॥८६०॥
जयदेवस्य ।