०७६ स्तनः

विश्वास-प्रस्तुतिः - ८५१

एतन् मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुर
प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते ।
तत्पल्लीपतिपुत्रि कुञ्जरकुलं जीवाभयाभ्यर्थना
दीनं त्वाम् अनुनाथति स्तनयुगं पत्रावृतं मा कृथाः ॥८५१॥

मूलम् - ८५१

वल्लणस्य । (सु।र। १६६४, क्प् १४२)

विश्वास-प्रस्तुतिः - ८५२

विलसतु फलजातं चारु हृद्यं तरूणां
तरुणि न पदवीं तद् यास्यति श्रीफलस्य ।
असमनिजमहिम्ना येन ते तन्वि तुङ्ग
स्तनयुगलजिगीषा साहसेनार्जिता श्रीः ॥८५२॥

मूलम् - ८५२

तालहडीयदङ्कस्य ।

विश्वास-प्रस्तुतिः - ८५३

अयं लोलन्मुक्तावलिकिरणावलिकिरणमालापरिकरः
स्फुटस्येन्दोर् लक्ष्मीं क्षपयितुम् अलं मन्मथसुहृत् ।
विशालः श्यामायाः स्थगितघननीलांशुकवृतः
स्तनाभोगः स्विद्यन्मसृणघुसृणालेपसुभगः ॥८५३॥

मूलम् - ८५३

मनोविनोदकृतः । (सु।र। ४७२)

विश्वास-प्रस्तुतिः - ८५४

सजन्मानौ तुल्याव् अपि जनितुर् आजन्म च सह
प्रवृद्धौ नाम्ना च स्तन इति समानाव् उदयिनौ ।
मिथः सीमामात्रे यद् इदम् अनयोर् मण्डलभृतोर्
अपि स्पर्धा नूनं तद् इह हि नमस्या कठिनता ॥८५४॥

मूलम् - ८५४

राजशेखरस्य । (सु।र। ४२९)

विश्वास-प्रस्तुतिः - ८५५

उद्भूतं किम् इदं मनोभवनृप क्रीडारविन्दद्वयं
तत्सूतिः कथम् एकतस् तनुवसद् रोमावलीनालतः ।
चक्रद्वन्द्वम् अपि क्षमं तद् अपि किं स्थातुं मुखेन्दोः पुरो
लावण्याम्बुधिमग्नयौवनगजस्यावैमि कुम्भद्वयम् ॥८५५॥

मूलम् - ८५५

कस्यचित् ।