०७५ बाहुः

विश्वास-प्रस्तुतिः - ८४६

इमां विधातुं भुजवल्लि मुज्ज्वलां
गृहीतसारं विधिना नतभ्रुवः ।
कठोरभावप्रियम् एव केवलं
मृणालम् अन्तस्तरलं कुतो’न्यथा ॥८४६॥

मूलम् - ८४६

इमां विधातुं भुजवल्लि मुज्ज्वलां
गृहीतसारं विधिना नतभ्रुवः ।
कठोरभावप्रियम् एव केवलं
मृणालम् अन्तस्तरलं कुतो’न्यथा ॥८४६॥

दूनोकस्य ।

विश्वास-प्रस्तुतिः - ८४७

किं स्यात् फलं स्फुटम् अधूकमयेन दाम्ना
का वार्थिता विकचचम्पकमालया मे ।
धिक् तां च काञ्चनसरोजमृणालनालां
लीलाभुवो भुजलता ललितास्तु सैव ॥८४७॥

मूलम् - ८४७

किं स्यात् फलं स्फुटम् अधूकमयेन दाम्ना
का वार्थिता विकचचम्पकमालया मे ।
धिक् तां च काञ्चनसरोजमृणालनालां
लीलाभुवो भुजलता ललितास्तु सैव ॥८४७॥

कविकुसुमस्य ।

विश्वास-प्रस्तुतिः - ८४८

दयिता बाहुपाशस्य कुतो’यम् अपरो विधिः ।
जीवयत्य् अर्पितः कण्ठे मारयत्य् अपवर्जितः ॥८४८॥

मूलम् - ८४८

दयिता बाहुपाशस्य कुतो’यम् अपरो विधिः ।
जीवयत्य् अर्पितः कण्ठे मारयत्य् अपवर्जितः ॥८४८॥

कश्मीरकश्यामलस्य । (स्व् १५२९, शा।प। ३३३०, सू।मु। ५३।४०)

विश्वास-प्रस्तुतिः - ८४९

सरले एव दोर्लेखे यदि चञ्चलचक्षुषः ।
अमुग्धाभ्यो मृणालीभ्यः कथम् आजह्रतुः श्रियम् ॥८४९॥

मूलम् - ८४९

सरले एव दोर्लेखे यदि चञ्चलचक्षुषः ।
अमुग्धाभ्यो मृणालीभ्यः कथम् आजह्रतुः श्रियम् ॥८४९॥

बिल्हणस्य । (व्च् ८।६४)

विश्वास-प्रस्तुतिः - ८५०

बाहू तस्याः कुचाभोग
निषिद्धान्योन्यदर्शनौ ।
मन्त्रितं कथम् एताभ्यां
मृणालीकीर्तिलुण्ठनम् ॥८५०॥

मूलम् - ८५०

बाहू तस्याः कुचाभोग
निषिद्धान्योन्यदर्शनौ ।
मन्त्रितं कथम् एताभ्यां
मृणालीकीर्तिलुण्ठनम् ॥८५०॥

तस्यैव । (व्च्। ८।६६)