०७४ वचनम्

विश्वास-प्रस्तुतिः - ८४१

कलक्वाणे वीणे विरम रणितात् कोकिल सखे
सखेदो मा भूस् त्वं द्रुहिणविहितस् ते परिभवः ।
सुधे मुञ्च स्पर्धाम् अधरमधुसंसर्गसरसाः
स्फुटन्त्य् एता वाचः किम् अपि कमनीया मृगदृशः ॥८४१॥

मूलम् - ८४१

कलक्वाणे वीणे विरम रणितात् कोकिल सखे
सखेदो मा भूस् त्वं द्रुहिणविहितस् ते परिभवः ।
सुधे मुञ्च स्पर्धाम् अधरमधुसंसर्गसरसाः
स्फुटन्त्य् एता वाचः किम् अपि कमनीया मृगदृशः ॥८४१॥

सूर्यधरस्य ।

विश्वास-प्रस्तुतिः - ८४२

नैवोदञ्चय पञ्चमं पिकरुतं मा शारिके सारय
त्वं धीरो भव कीर वल्लकिवरात् तन्त्रीम् अतन्त्रीं कुरु ।
उन्मीलद्युवभावसम्भृतरसप्रत्युन्मिषद्वक्रिम
प्रकान्तस्मितकौमुदीसहभुवो वाचः श्रुताः सुभ्रुवः ॥८४२॥

मूलम् - ८४२

नैवोदञ्चय पञ्चमं पिकरुतं मा शारिके सारय
त्वं धीरो भव कीर वल्लकिवरात् तन्त्रीम् अतन्त्रीं कुरु ।
उन्मीलद्युवभावसम्भृतरसप्रत्युन्मिषद्वक्रिम
प्रकान्तस्मितकौमुदीसहभुवो वाचः श्रुताः सुभ्रुवः ॥८४२॥

सेन्दुभस्य ।

विश्वास-प्रस्तुतिः - ८४३

तिर्यक्तयैव परपुष्टवधूर् अपात्रं
वीणाप्य् अमानुषगुणा गणना कुतो’स्याः ।
वाचां न किञ्चिद् अनुकारि मृगायताक्ष्या
माधुर्यसीमनि सुधां पुनर् आलिखामि ॥८४३॥

मूलम् - ८४३

तिर्यक्तयैव परपुष्टवधूर् अपात्रं
वीणाप्य् अमानुषगुणा गणना कुतो’स्याः ।
वाचां न किञ्चिद् अनुकारि मृगायताक्ष्या
माधुर्यसीमनि सुधां पुनर् आलिखामि ॥८४३॥

कालिदासनन्दिनः ।

विश्वास-प्रस्तुतिः - ८४४

तन्व्या मनोज्ञस्वरनैपुणेन
विनिर्जितो रोषविलोहिताक्षः ।
प्रसक्तचित्ताहितम् अन्यपुष्टः
शोकेन कार्ष्ण्यं वहतीति मन्ये ॥८४४॥

मूलम् - ८४४

तन्व्या मनोज्ञस्वरनैपुणेन
विनिर्जितो रोषविलोहिताक्षः ।
प्रसक्तचित्ताहितम् अन्यपुष्टः
शोकेन कार्ष्ण्यं वहतीति मन्ये ॥८४४॥

कुमारदासस्य । (जानकीहरण ७।१७)

विश्वास-प्रस्तुतिः - ८४५

शिरीषपुष्पाद् अपि कोमलाया
वेधा विधायाङ्गम् अशेषम् अस्याः ।
प्राप्तप्रकर्षः सुकुमारसर्गे
समापयद् वाचि मृदुत्वतत्त्वम् ॥८४५॥

मूलम् - ८४५

शिरीषपुष्पाद् अपि कोमलाया
वेधा विधायाङ्गम् अशेषम् अस्याः ।
प्राप्तप्रकर्षः सुकुमारसर्गे
समापयद् वाचि मृदुत्वतत्त्वम् ॥८४५॥

कविपण्डितश्रीहर्षस्य । (न्च्। ७।४७)