०७२ अधरः

विश्वास-प्रस्तुतिः - ८३१

अयम् अक्षुण्णकान्तश्री
रधरो हरिणीदृशः ।
प्रवालपद्मरागादे
रुपरि प्रतिगर्जति ॥८३१॥

मूलम् - ८३१

अयम् अक्षुण्णकान्तश्री
रधरो हरिणीदृशः ।
प्रवालपद्मरागादे
रुपरि प्रतिगर्जति ॥८३१॥

धर्माशोकदत्तस्य ।

विश्वास-प्रस्तुतिः - ८३२

अभिनवजवापुष्पस्पर्धी तवाधरपल्लवो
हसितकुसुमोन्मेषच्छायादरच्छुरितान्तरः ।
नयनमधुपश्रेणीं यूनाम् अनारतम् आहरं
स्तरुणि तनुते तारुण्यश्रीर् विलासवतंसताम् ॥८३२॥

मूलम् - ८३२

अभिनवजवापुष्पस्पर्धी तवाधरपल्लवो
हसितकुसुमोन्मेषच्छायादरच्छुरितान्तरः ।
नयनमधुपश्रेणीं यूनाम् अनारतम् आहरं
स्तरुणि तनुते तारुण्यश्रीर् विलासवतंसताम् ॥८३२॥

जलचन्द्रस्य ।

विश्वास-प्रस्तुतिः - ८३३

अयं ते विद्रुमच्छायो मरुदेश इवाधरः ।
करोति कस्य नो मुग्धे पिपासातरलं मनः ॥८३३॥

मूलम् - ८३३

अयं ते विद्रुमच्छायो मरुदेश इवाधरः ।
करोति कस्य नो मुग्धे पिपासातरलं मनः ॥८३३॥

कस्यचित् । (सु।र। ४९२)

विश्वास-प्रस्तुतिः - ८३४

विभाति बिम्बाधरवल्लिर् अस्याः
स्मरस्य बन्धूकधनुर् लतेव ।
विनापि बाणेन गुणेन येयं
यूनां मनांसि प्रसभं भिनत्ति ॥८३४॥

मूलम् - ८३४

विभाति बिम्बाधरवल्लिर् अस्याः
स्मरस्य बन्धूकधनुर् लतेव ।
विनापि बाणेन गुणेन येयं
यूनां मनांसि प्रसभं भिनत्ति ॥८३४॥

जयदेवस्य ।

विश्वास-प्रस्तुतिः - ८३५

स्याद् बन्धुजीवनिवहैर् यदि पञ्चबाण
चापश् चलत्कुसुमकेशरचामराङ्कः ।
स्याद् एव तेन तुलना तरुणि त्वदीय
बिम्बाधरस्य मधुरस्मितभावितस्य ॥८३५॥

मूलम् - ८३५

स्याद् बन्धुजीवनिवहैर् यदि पञ्चबाण
चापश् चलत्कुसुमकेशरचामराङ्कः ।
स्याद् एव तेन तुलना तरुणि त्वदीय
बिम्बाधरस्य मधुरस्मितभावितस्य ॥८३५॥

शङ्करदेवस्य ।