विश्वास-प्रस्तुतिः - ८२६
त्यक्तादरो धनुषि सौमनसे वरोरु
नीराजितः सुतनु नैष निजैः पृषत्कैः ।
बध्नन्न् अभून् नयनकालमृगान् इदानीं
त्वत्कर्णपाशयुगवागुरिको मनोभूः ॥८२६॥
मूलम् - ८२६
त्यक्तादरो धनुषि सौमनसे वरोरु
नीराजितः सुतनु नैष निजैः पृषत्कैः ।
बध्नन्न् अभून् नयनकालमृगान् इदानीं
त्वत्कर्णपाशयुगवागुरिको मनोभूः ॥८२६॥
गोपीकस्य ।
विश्वास-प्रस्तुतिः - ८२७
अहह किम् अधुना मुधैव बध्नास्य्
अनुचितकारिणि कर्णदन्तपत्रम् ।
ननु तव चटुलभ्रुकर्णपालिर्
भुवनविलोचनकालसारपाशः ॥८२७॥
मूलम् - ८२७
अहह किम् अधुना मुधैव बध्नास्य्
अनुचितकारिणि कर्णदन्तपत्रम् ।
ननु तव चटुलभ्रुकर्णपालिर्
भुवनविलोचनकालसारपाशः ॥८२७॥
तस्यैव ।
विश्वास-प्रस्तुतिः - ८२८
किं पत्रभङ्गरुचिजालम् इदं कपोले
त्वत्कर्णयोः सुदति सारित एष पाशः ।
कश्चित् त्व् अवत्य् अपि किम् उत्पतितो नितम्बांस्
त्वन्मध्यदेशदवम् ईक्षणकालसारः ॥८२८॥
मूलम् - ८२८
किं पत्रभङ्गरुचिजालम् इदं कपोले
त्वत्कर्णयोः सुदति सारित एष पाशः ।
कश्चित् त्व् अवत्य् अपि किम् उत्पतितो नितम्बांस्
त्वन्मध्यदेशदवम् ईक्षणकालसारः ॥८२८॥
तस्यैव ।
विश्वास-प्रस्तुतिः - ८२९
स्मरशरधिनिकाशं कर्णपाशं कृशाङ्गी
रयविगलितताडीपत्रताडङ्कम् एकम् ।
वहति हृदयचोरं कुङ्कुमन्यासगौरं
वलयितम् इव नालं लोचनेन्दीवरस्य ॥८२९॥
मूलम् - ८२९
स्मरशरधिनिकाशं कर्णपाशं कृशाङ्गी
रयविगलितताडीपत्रताडङ्कम् एकम् ।
वहति हृदयचोरं कुङ्कुमन्यासगौरं
वलयितम् इव नालं लोचनेन्दीवरस्य ॥८२९॥
कस्यचित् । (सु।र। ५२४)
विश्वास-प्रस्तुतिः - ८३०
सम्भोगभृष्टताडङ्कः
कर्णस् तस्या विराजते ।
नेत्रनीलोत्पलस्येव
नालकं द्विगुणीकृतम् ॥८३०॥
मूलम् - ८३०
सम्भोगभृष्टताडङ्कः
कर्णस् तस्या विराजते ।
नेत्रनीलोत्पलस्येव
नालकं द्विगुणीकृतम् ॥८३०॥
विक्रमादित्यकालिदासयोः ।