०७० नयनम्

विश्वास-प्रस्तुतिः - ८२१

नलिनं मलिनं विवृण्वती
पृषतीम् अस्पृशती तदीक्षणे ।
अपि खञ्जनम् अञ्जनाञ्चिते
विदधाते रुचिगर्वदुर्विधम् ॥८२१॥

मूलम् - ८२१

नलिनं मलिनं विवृण्वती
पृषतीम् अस्पृशती तदीक्षणे ।
अपि खञ्जनम् अञ्जनाञ्चिते
विदधाते रुचिगर्वदुर्विधम् ॥८२१॥

कविपण्डितश्रीहर्षस्य । (न्च् २।२३, शा।प। ३३०१)

विश्वास-प्रस्तुतिः - ८२२

निजनयनप्रतिबिम्बैर् अम्बुनि बहुशः प्रतारिता कापि ।
नीलोत्पले’पि विमृशति करम् अर्पयितुं कुसुमलावी ॥८२२॥

मूलम् - ८२२

निजनयनप्रतिबिम्बैर् अम्बुनि बहुशः प्रतारिता कापि ।
नीलोत्पले’पि विमृशति करम् अर्पयितुं कुसुमलावी ॥८२२॥

धरणीधरस्य । (सु।र। ३९१, सू।मु। ६७।१३, सा।द। ८।१९)

विश्वास-प्रस्तुतिः - ८२३

नीराजयामि नयने तव यन् मृषोद्य
मिन्दीवरैः समम् अबद्धमुखाः करं ते ।
अद्यापि शाम्यति न ते बत पार्वणेन्दु
बिम्बोपमा सखि मुखाम्बुजकिंवदन्ती ॥८२३॥

मूलम् - ८२३

नीराजयामि नयने तव यन् मृषोद्य
मिन्दीवरैः समम् अबद्धमुखाः करं ते ।
अद्यापि शाम्यति न ते बत पार्वणेन्दु
बिम्बोपमा सखि मुखाम्बुजकिंवदन्ती ॥८२३॥

पीताम्बरस्य ।

विश्वास-प्रस्तुतिः - ८२४

अक्षिभ्यां कृष्णशाराभ्याम् अस्याः कर्णौ न बाधितौ ।
शङ्के कनकताडङ्कपाशत्रासवशाद् इव ॥८२४॥

मूलम् - ८२४

अक्षिभ्यां कृष्णशाराभ्याम् अस्याः कर्णौ न बाधितौ ।
शङ्के कनकताडङ्कपाशत्रासवशाद् इव ॥८२४॥

बङ्गालस्य ।

विश्वास-प्रस्तुतिः - ८२५

मृगीसम्बन्धिनी दृष्टिर् असौ यदि न सुभ्रुवः ।
धावति श्रवणोत्तंसलीलादूर्वाङ्कुरे कृतः ॥८२५॥

मूलम् - ८२५

मृगीसम्बन्धिनी दृष्टिर् असौ यदि न सुभ्रुवः ।
धावति श्रवणोत्तंसलीलादूर्वाङ्कुरे कृतः ॥८२५॥

बिल्हणस्य । (व्च् ८।७३)