विश्वास-प्रस्तुतिः - ८१६
असङ्गतेनोन्नतिम् आगतेन
चलेन वक्रेण मलीमसेन ।
सा दुर्जनेनैव समस्तम् एतं
प्रबाधते भ्रूयुगलेन लोकम् ॥८१६॥
मूलम् - ८१६
असङ्गतेनोन्नतिम् आगतेन
चलेन वक्रेण मलीमसेन ।
सा दुर्जनेनैव समस्तम् एतं
प्रबाधते भ्रूयुगलेन लोकम् ॥८१६॥
यज्ञघोषस्य ।
विश्वास-प्रस्तुतिः - ८१७
अकौसुमी मन्मथचापयष्टि
रनंशुका विभ्रमवैजयन्ती ।
ललाटरङ्गाङ्गणनर्तकीय
मनञ्जना भूर् अनुयाति दृष्टिम् ॥८१७॥
मूलम् - ८१७
अकौसुमी मन्मथचापयष्टि
रनंशुका विभ्रमवैजयन्ती ।
ललाटरङ्गाङ्गणनर्तकीय
मनञ्जना भूर् अनुयाति दृष्टिम् ॥८१७॥
कस्यचित् ।
विश्वास-प्रस्तुतिः - ८१८
विरमतु रतिजाने लोलरोलम्बकीट
व्रणविवरसहस्रक्षुण्णम् एतद् धनुस् ते ।
यद् इह कुसुमकेतो भ्रूलता काप्य् यूना
मुपरि जयपताका सुभ्रुवो विश्वजेत्री ॥८१८॥
मूलम् - ८१८
विरमतु रतिजाने लोलरोलम्बकीट
व्रणविवरसहस्रक्षुण्णम् एतद् धनुस् ते ।
यद् इह कुसुमकेतो भ्रूलता काप्य् यूना
मुपरि जयपताका सुभ्रुवो विश्वजेत्री ॥८१८॥
वासुदेवज्योतिषः ।
विश्वास-प्रस्तुतिः - ८१९
इन्दोः कान्तिं जडतरकरान् मत्तनागाद् गतिं वा
त्रस्तान् नेत्रे हरसि हरिणात् तत्र किं नाम चित्रम् ।
एतच् चित्रं पुनर् इह जगज्जैत्रकन्दर्पचाप
श्रीसर्वस्वं यद् अपहरसि प्रेयसि भ्रूविलासैः ॥८१९॥
मूलम् - ८१९
इन्दोः कान्तिं जडतरकरान् मत्तनागाद् गतिं वा
त्रस्तान् नेत्रे हरसि हरिणात् तत्र किं नाम चित्रम् ।
एतच् चित्रं पुनर् इह जगज्जैत्रकन्दर्पचाप
श्रीसर्वस्वं यद् अपहरसि प्रेयसि भ्रूविलासैः ॥८१९॥
नान्यदेवस्य ।
विश्वास-प्रस्तुतिः - ८२०
भ्रूलेखायुगलं भाति
तस्याश् चटुलचक्षुषः ।
पत्रद्वयीव हरिता
नासावंशस्य निर्गता ॥८२०॥
मूलम् - ८२०
भ्रूलेखायुगलं भाति
तस्याश् चटुलचक्षुषः ।
पत्रद्वयीव हरिता
नासावंशस्य निर्गता ॥८२०॥
बिल्हणस्य । (व्च् २।७९, शा।प। ३२९७, सू।मु। ५३।७)