विश्वास-प्रस्तुतिः - ८०६
देवो रविर् वा प्रणिपत्य याच्यः
कालक्रमान् मण्डलम् आगतस्य ।
परः सहस्राः शरदो विधेयास्
त्वयातिथेयी मृगलाञ्छनस्य ॥८०६॥
मूलम् - ८०६
देवो रविर् वा प्रणिपत्य याच्यः
कालक्रमान् मण्डलम् आगतस्य ।
परः सहस्राः शरदो विधेयास्
त्वयातिथेयी मृगलाञ्छनस्य ॥८०६॥
कस्यचित् ।
विश्वास-प्रस्तुतिः - ८०७
शीतमधुरम् अपि गलितं
वमति विधुं व्याधिना येन ।
शमयति यस् तं राहोः सखि
भिषजस् तस्य दासी स्याम् ॥८०७॥
मूलम् - ८०७
शीतमधुरम् अपि गलितं
वमति विधुं व्याधिना येन ।
शमयति यस् तं राहोः सखि
भिषजस् तस्य दासी स्याम् ॥८०७॥
धर्मपालस्य ।
विश्वास-प्रस्तुतिः - ८०८
अस्मिन् करीन्द्रकरनिर्गलितारविन्द
कन्दानुकारिणि चिरं रुचिचक्रवाले ।
कस्मै फलाय कुलटाकुलकोटिहोमं
हंहो मृगाङ्क कुरुषे करुणामपास्य ॥८०८॥
मूलम् - ८०८
अस्मिन् करीन्द्रकरनिर्गलितारविन्द
कन्दानुकारिणि चिरं रुचिचक्रवाले ।
कस्मै फलाय कुलटाकुलकोटिहोमं
हंहो मृगाङ्क कुरुषे करुणामपास्य ॥८०८॥
सुभटस्य ।
विश्वास-प्रस्तुतिः - ८०९
निष्पीयांशुपयः पयोरुहरिपोश् चक्रुश् चकोरा इमे
यन् नाद्यापि कलङ्कपङ्किलकलाकङ्कालशेषं वपुः ।
सैषा किं कविकल्पना सखि किम् उ स्वैराङ्गनादुष्कृतैर्
एभ्यः कान्तिकलापपानपटिमव्युत्पत्तिर् उद्वासिता ॥८०९॥
मूलम् - ८०९
निष्पीयांशुपयः पयोरुहरिपोश् चक्रुश् चकोरा इमे
यन् नाद्यापि कलङ्कपङ्किलकलाकङ्कालशेषं वपुः ।
सैषा किं कविकल्पना सखि किम् उ स्वैराङ्गनादुष्कृतैर्
एभ्यः कान्तिकलापपानपटिमव्युत्पत्तिर् उद्वासिता ॥८०९॥
तस्यैव ।
विश्वास-प्रस्तुतिः - ८१०
यन् मृत्युञ्जयमौलिरत्नम् अमृतप्रस्यन्दिसान्द्रच्छविर्
ज्यायान् मन्त्रविदां महार्णवमणिश्रेणिसकुल्याग्रणीः ।
प्रेयान् ओषधिमण्डलस्य वहति क्षीणं वपुर् यः क्षणात्
तत्रैते विलसन्ति पुत्रि कुलटासत्कर्मणां मूर्तयः ॥८१०॥
मूलम् - ८१०

जलचन्द्रस्य ।