०६३ दिवाभिसारिका

विश्वास-प्रस्तुतिः - ७८६

अवलोक्य नर्तितशिखण्डिमण्डलैर्
नवनीरदैर् निचुलितं नभस्तलम् ।
दिवसे’पि वञ्जुलनिकुञ्जमित्वरी
विशति स्म वल्लभवतंसितं रसात् ॥७८६॥

मूलम् - ७८६

अवलोक्य नर्तितशिखण्डिमण्डलैर्
नवनीरदैर् निचुलितं नभस्तलम् ।
दिवसे’पि वञ्जुलनिकुञ्जमित्वरी
विशति स्म वल्लभवतंसितं रसात् ॥७८६॥

सुभटस्य ।

विश्वास-प्रस्तुतिः - ७८७

सान्द्रेषु चम्पकवनेषु विनिद्रपुष्प
पङ्क्तिप्रकाशितपरागपिशङ्गितेषु ।
मध्यन्दिने’पि रमणी रमणाभिसार
बुद्धिं बभार कनकाभरणं भजन्ती ॥७८७॥

मूलम् - ७८७

सान्द्रेषु चम्पकवनेषु विनिद्रपुष्प
पङ्क्तिप्रकाशितपरागपिशङ्गितेषु ।
मध्यन्दिने’पि रमणी रमणाभिसार
बुद्धिं बभार कनकाभरणं भजन्ती ॥७८७॥

तस्यैव ।

विश्वास-प्रस्तुतिः - ७८८

दिवापि जलदोदयाद् उपचितान्धकारच्छटा
जटालिततटीम् इमां विशति विस्मरन्ती भयम् ।
तमालतरुणमण्डितावटनिरस्तभानुद्युतिं
धृताभिसरणव्रता शवरसुन्दरी कन्दरीम् ॥७८८॥

मूलम् - ७८८

दिवापि जलदोदयाद् उपचितान्धकारच्छटा
जटालिततटीम् इमां विशति विस्मरन्ती भयम् ।
तमालतरुणमण्डितावटनिरस्तभानुद्युतिं
धृताभिसरणव्रता शवरसुन्दरी कन्दरीम् ॥७८८॥

कालिदासस्य ।

विश्वास-प्रस्तुतिः - ७८९

मध्याह्ने द्विगुणार्कदीधितिदलत्सम्भोगवीथीपथ
प्रस्थानव्ययितारुणाङ्गुलिदलं राधापदं माधवः ।
मौलौ स्रक्शबले मुहुः समुदितस्वेदे मुहुर् वक्षसि
न्यस्य प्राणयति प्रकम्पविधुरैः श्वासोर्मिवातैर् मुहुः ॥७८९॥

मूलम् - ७८९

मध्याह्ने द्विगुणार्कदीधितिदलत्सम्भोगवीथीपथ
प्रस्थानव्ययितारुणाङ्गुलिदलं राधापदं माधवः ।
मौलौ स्रक्शबले मुहुः समुदितस्वेदे मुहुर् वक्षसि
न्यस्य प्राणयति प्रकम्पविधुरैः श्वासोर्मिवातैर् मुहुः ॥७८९॥

आचार्यगोपीकस्य ।

विश्वास-प्रस्तुतिः - ७९०

दिवसे’पि धूममहिषी
वाद्योत्सवदुर्दिनेषु मिलितायाः ।
नाकृतपुण्यः पश्यसि
रहसि मुदा वदनक्रमम् एणाक्ष्याः ॥७९०॥

मूलम् - ७९०

दिवसे’पि धूममहिषी
वाद्योत्सवदुर्दिनेषु मिलितायाः ।
नाकृतपुण्यः पश्यसि
रहसि मुदा वदनक्रमम् एणाक्ष्याः ॥७९०॥

उमापतिधरस्य ।