०६१ अभिसारारम्भः

विश्वास-प्रस्तुतिः - ७७६

पतिर् दुर्वञ्चो’यं विधुरमलिनो वर्त्म विषमं
जनश् छिद्रान्वेषी प्रणयिवचनं दुष्परिहरम् ।
अतः काचित् तन्वी रतिविदितसङ्केतगतये
गृहाद् वारं वारं निरसरद् अथ प्राविशद् अथ ॥७७६॥

मूलम् - ७७६

कस्यचित् । (सु।र। ८३०)

विश्वास-प्रस्तुतिः - ७७७

मन्दं निधेहि चरणौ परिधेहि नीलं
वासः पिधेहि वलयावलिम् अञ्चलेन ।
मा जल्प साहसिनि शारदचन्द्रकान्ति
दन्तांशवस् तव तमांसि समापयन्ति ॥७७७॥

मूलम् - ७७७

मन्दं निधेहि चरणौ परिधेहि नीलं
वासः पिधेहि वलयावलिम् अञ्चलेन ।
मा जल्प साहसिनि शारदचन्द्रकान्ति
दन्तांशवस् तव तमांसि समापयन्ति ॥७७७॥

नालस्य । (पद्या॥ १९४; शा।प। ३६२०, सू।मु। ७१।८ हरिहरस्य)

विश्वास-प्रस्तुतिः - ७७८

उत्क्षिप्तं सखि वर्तिपूरितमुखं मूकीकृतं नूपुरं
काञ्चीदाम निवृत्तघर्घररवं क्षिप्तं दुकूलान्तरे ।
सुप्ताः पञ्जरसारिकाः परिजनो’प्य् आघूर्णितो निद्रया
शून्यो राजपथस् तमांसि निविडान्य् एह्य् एहि निर्गम्यताम् ॥७७८॥

मूलम् - ७७८

योगेश्वरस्य ।

विश्वास-प्रस्तुतिः - ७७९

सखी निर्वैलक्ष्या स च सहचरो’त्यन्तचपलः
कृतो मुग्धे दुग्धे किम् इति वृषदंशः प्रहरिकः ।
सुवर्णं स्वं चक्षुः फलति न विलम्बस्व कुलटा
कुलोत्पातः शातक्रतवम् अचलं चुम्बति शशी ॥७७९॥

मूलम् - ७७९

मित्रस्य ।

विश्वास-प्रस्तुतिः - ७८०

मुञ्चत्य् आभरणानि दीप्तमुखराण्य् उत्तंसम् इन्दीवरैः
कुर्वाणा दधती मुहुर् मृगमदक्षोदानुलिप्तं वपुः ।
कालिन्दीजलवेणिनीलमसृणं चीनांशुकं बिभ्रती
मुग्धे त्वं प्रकटीकरोष्य् अविनयारम्भं वृथा निह्नवः ॥७८०॥

मूलम् - ७८०

लक्ष्मणसेनदेवस्य ।