विश्वास-प्रस्तुतिः - ७७१
आयाते दयिते मरुस्थलभुवाम् उत्प्रेक्ष्य दुर्लङ्घ्यतां
गेहिन्या परितोषबाष्पतरलाम् आसज्य दृष्टिं मुखे ।
दत्त्वा पीलुशमीकरीरकवलान् स्वेनाञ्चलेनादरा
दामृष्टं करभस्य केसरसटाभाराग्रलग्नं रजः ॥७७१॥
मूलम् - ७७१

केशटस्य । (स।क।आ। ५।१२०, द।रू। ४।१४अ, सु।र। ५१२, स्व् २०७५, सू।मु। ५४।४)
विश्वास-प्रस्तुतिः - ७७२
केयूरीकृतकङ्कणावलिर् असौ कर्णावतंसीकृत
व्यालोलालकपद्धतिः पथि पुरो बद्धाञ्जलिः पृच्छति ।
यावत् कञ्चिद् उदन्तम् आत्मकम् इतुस् तावत् स एवेत्य् अथ
व्रीडावक्रितकण्ठनालम् अबला कैः कैर् न भिन्ना रसैः ॥७७२॥
मूलम् - ७७२

राजशेखरस्य । (सू।मु। ५४।१०, सु।र। ७१३)
विश्वास-प्रस्तुतिः - ७७३
निद्रे भद्रम् अवस्थितासि कुशलं संवेदने किं तव
क्षेमं ते सखि निर्वृते न तु समं कान्तेन यूयं गताः ।
किं चान्यत् प्रियसङ्गमेन चलितो गच्छन् विपद्वत्सलो
मूर्च्छाविस्मृतिवेदनापरिजनो दृष्टो’स्मदीयो न वा ॥७७३॥
मूलम् - ७७३

अरविन्दस्य । (सु।र। ७१७)
विश्वास-प्रस्तुतिः - ७७४
प्राग् यामिनि प्रियवियोगविपत्तिकाले
त्वय्य् एव वासरशतानि लयं गतानि ।
दैवात् कथं कथम् अपि प्रियसङ्गमे’द्य
चण्डालि किं त्वम् असि वासर एव लीना ॥७७४॥
मूलम् - ७७४

कस्यचित् ।
विश्वास-प्रस्तुतिः - ७७५
प्रत्युद्गम्य तनूरुहोद्गतिवशात् खेदस्खलच्चेष्टया
दत्त्वा स्वेदलवैः स्वहस्तगलितैः प्रक्षालना पादयोः ।
किञ्चित् स्मेरमुखप्रकीर्णदशनस्वच्छांशुपुष्पोज्ज्वलैर्
आनन्दाश्रुभिर् अर्चितो दयितया पान्थश् चिराद् आगतः ॥७७५॥
मूलम् - ७७५