०५८ वर्त्मावलोकिनी

विश्वास-प्रस्तुतिः - ७६१

पाण्डुक्षामकपोलपालिलुठितां त्रस्तैणशावेक्षणा
हस्तेन श्लथकङ्कणेन कवरीम् उल्लासयन्ती मुहुः ।
द्वारोपान्तविलम्बिनी प्रियपथं तन्वङ्गि यद् वीक्षसे
तन् मन्ये विकटैर् इवाञ्चसि पुरः पन्थानम् इन्दीवरैः ॥७६१॥

मूलम् - ७६१

कस्यचित् ।

विश्वास-प्रस्तुतिः - ७६२

पर्यस्तो दिवसस् तटीमयम् अटत्य् अस्ताचलस्यांशुमान्
सम्प्रत्य् अङ्कुरितान्धकारपटलैर् लम्बालका द्यौर् इव ।
एह्य् अन्तर् विश वेश्मनः शशिमुखि द्वारस्थलीतोरणे
स्तम्भालम्बितबाहुवल्लि रुदती किं त्वं पथः पश्यसि ॥७६२॥

मूलम् - ७६२

धर्मयोगेश्वरस्य ।

विश्वास-प्रस्तुतिः - ७६३

उत्क्षिप्यालकमालिकां विलुलिताम् आपाण्डुगण्डस्थलाद्
विश्लिष्यद्वलयप्रपातभयतः प्रोद्यम्य किञ्चित् करौ ।
द्वारस्तम्भनिषण्णगात्रलतिका केनापि पुण्यात्मना
मार्गालोकनदत्तदृष्टिर् अबला तत्कालम् आलिङ्ग्यते ॥७६३॥

मूलम् - ७६३

रुद्रटस्य । (शृ।ति। १।८१)

विश्वास-प्रस्तुतिः - ७६४

आजन्मव्यवसायिना क्रतुशतैर् आराध्य पुष्पायुधं
केनाकारि पुरा तनूदरि तनुत्यागः प्रयागभ्रमे ।
यस्यार्थे सखि लोलनेत्रनलिनीनालायमानस्खलद्
बष्पाम्भः पतनान्तरालवलितग्रीवं पथः पश्यसि ॥७६४॥

मूलम् - ७६४

धोयीकस्य ।

विश्वास-प्रस्तुतिः - ७६५

आदृष्टिप्रसरात् प्रियस्य पदवीम् उद्वीक्ष्य निर्विण्णया
विश्रान्तेषु पथिष्व् अहःपरिणतौ ध्वान्ते समुत्सर्पति ।
यान्त्यैव स्वनिवेशनं प्रतिपथं पान्थस्त्रियास्मिन् क्षणे
मा भूद् आगत इत्य् अमन्दवलितोद्ग्रीवं मुहुर् वीक्षितम् ॥७६५॥

मूलम् - ७६५

सिद्धोकस्य । (अमरु ६४, द।रू। २।२७अ, स्व् १०५६, सु।र। ७२८)