०५७ प्रोषितभर्तृकावस्था

विश्वास-प्रस्तुतिः - ७५६

अविरलपतद्बाष्पोत्पीडप्रसिक्तकपोलया
वचनविषयः सन्देशो’न्यस् तया विहितो न ते ।
मनसि किम् अपि ध्यायन्त्या तु क्षणं तव कान्तया
पथिक निहिता दृष्टिः कष्टं नवे करुणाङ्कुरे ॥७५६॥

मूलम् - ७५६

धर्मपालस्य ।

विश्वास-प्रस्तुतिः - ७५७

पक्ष्माग्रस्खलिताश्रुधौतवलया निष्पन्दतारेक्षणा
बिभ्राणा करपल्लवेन सततं क्षामं कपोलस्थलम् ।
सेदानीं लिखितेव काम् अपि गतावस्थां सखीभिश् चिराद्
आसन्नावधिवासरप्रकटितप्रत्याशयाश्वास्यते ॥७५७॥

मूलम् - ७५७

कस्यचित् ।

विश्वास-प्रस्तुतिः - ७५८

विच्छिन्ने’वधिवासरे क्षणम् अथ त्वद्वर्त्मवातायनं
वारं वारम् उपेत्य निर्घृणतया निश्चित्य किञ्चित् ततः ।
सम्प्रत्य् एव निवेद्य केलिकुररीः सास्रं सखीभ्यः शिशोर्
माधव्याः सहकारकेण करुणः पाणिग्रहः कल्पितः ॥७५८॥

मूलम् - ७५८

विश्वास-प्रस्तुतिः - ७५९

निपतति शयने तव स्मरन्ती
पथिकवधूर् अवधूतजीविताशा ।
जलधरसमयस्य केतुभूतां
वकुललताम् अवलोक्य पुष्पिताग्राम् ॥७५९॥

मूलम् - ७५९

निपतति शयने तव स्मरन्ती
पथिकवधूर् अवधूतजीविताशा ।
जलधरसमयस्य केतुभूतां
वकुललताम् अवलोक्य पुष्पिताग्राम् ॥७५९॥

कस्यचित् ।

विश्वास-प्रस्तुतिः - ७६०

आदूरात् प्रतिपान्थम् आहितदृशः प्रत्याशयोन्मीलति
ध्वान्ते स्वान्तम् अहर् व्यये’पि न परावृत्तं कुरङ्गीदृशः ।
तस्या निःसहबाहुवल्लिविगलद्धम्मिल्लवद् भङ्गुर
ग्रीवं दीर्घम् अजीववत् प्रियसखीवर्गेण नीतं वपुः ॥७६०॥

मूलम् - ७६०