विश्वास-प्रस्तुतिः - ७४१
प्रस्थानं वलयैः कृतं प्रियसखैर् अजस्रं गतं
धृत्या न क्षणम् आसितं व्यवसितं चित्तेन गन्तुं पुरः ।
गन्तुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किम् उ त्यज्यते ॥७४१॥
मूलम् - ७४१

कस्यचित् । (अमरु ३२; स्भ्व् ११५१; शा।प। ३४२४; सू।मु। ३७।१९; पद्या। ३१४)
विश्वास-प्रस्तुतिः - ७४२
आयाता मधुयामिनी विजयते कान्तप्रयाणोत्सवः
प्राणा यान्तु यियासवो यदि पुनर् जन्मग्रहो’भ्यर्थये ।
व्याधः कोकिलबन्धने विधुपरिध्वंसे च राहोर् गणाः
कन्दर्पे हरनेत्रपावककणाः प्राणेश्वरे मन्मथः ॥७४२॥
मूलम् - ७४२

इन्द्रशिवस्य ।
विश्वास-प्रस्तुतिः - ७४३
यात्रामङ्गलसंविधानरचनाव्यग्रे सखीनां गणे
बाष्पाम्भःपिहितेक्षणे गुरुजने तद्वत्सुहृन्मण्डले ।
प्राणेशस्य मदीक्षणार्पितदृशः कृच्छाद् अतिक्रामतः
किं व्रीडाहतया मया भुजलतापाशो न कण्ठे’र्पितः ॥७४३॥
मूलम् - ७४३

कस्यचित् । (स्व् ११५०, शा।प। ३४३७)
विश्वास-प्रस्तुतिः - ७४४
किं चूतैर् न विजृम्भितं स्तवकितं किं तैर् न कङ्केल्लिभिः
सिन्दूरैर् इव मुद्रितास् तत इतो जाता न किं किंशुकाः ।
विस्मृत्यापि न कोकिलैः किम् उ रुतं किं दाक्षिणात्यानिलैर्
वातं तत्र न निर्वृतैकहृदयो यत्रास्ति मे वल्लभः ॥७४४॥
मूलम् - ७४४

कस्यचित् ।
विश्वास-प्रस्तुतिः - ७४५
मया बद्धा वेणी निवसितम् अशुक्लं च वसनं
श्रुताः शोचन्तीनां पर्जनसखीनाम् अपि गिरः ।
निवृत्तास् ते दृष्टा गत्म् अनुगता ये’स्य सुहृदस्
तथाप्य् एते प्राणा दयितम् अनुयाता न कृपणाः ॥७४५॥
मूलम् - ७४५

कस्यचित् । (स्व् ११४२)