०५२ यात्राक्षेपः

विश्वास-प्रस्तुतिः - ७३१

कान्ते कत्य् अपि वासराणि गमय त्वं मीलयित्वा दृशौ
स्वस्ति स्वस्ति निमीलयामि नयने यावन् न शून्या दिशः ।
आयाता वयम् आगमिष्यति सुहृद्वर्गस्य भाग्योदयैः
सन्देशो वद कस् तवाभिलषितस् तीर्थेषु तोयाञ्जलिः ॥७३१॥

मूलम् - ७३१

वीरस्य । (अमरु २५)

विश्वास-प्रस्तुतिः - ७३२

गन्तुं वाञ्छसि गच्छ पिच्छिलम् अमी यावन् न कुर्वन्ति ते
पन्थानं मृदुमर्दलध्वनिमुचो धाराभिर् अम्भोधराः ।
एतस्यास् तव तानि … रहसि प्रेमाक्षराणि ध्रुवं
ध्यायन्त्यास् तु विपद् विनोदनसखी मुर्च्छैव सम्पत्स्यते ॥७३२॥

मूलम् - ७३२

कस्यचित् ।

विश्वास-प्रस्तुतिः - ७३३

यास्यामीति गिरः श्रुता अवधिर् अप्य् आलम्बितश् चेतसा
गेहे यत्नवती भविष्यसि सदेत्य् एतत् समाकर्णितम् ।
मुग्धे मा शुच इत्य् उदीरितवतः पत्युर् निरीक्ष्याननं
निःश्वस्य स्तनपायिनि स्वतनये दृष्टिश् चिरं पातिता ॥७३३॥

मूलम् - ७३३

भदन्तधीरनागस्य । (स्व् १०६४)

विश्वास-प्रस्तुतिः - ७३४

आयास्यस्य् अवधावपर्यवसिते गत्वेति सम्भाव्यते
सम्प्राप्ते त्वयि यानि तान्यपि सुखान्य् अद्यापरोक्षाणि नः ।
किं त्व् अज्ञातवियोगवेदनम् इदं सद्यस् त्वयि प्रस्थिते
चेतः किं नु करीष्यतीत्य् अविदितं सम्यङ् न निश्चीयते ॥७३४॥

मूलम् - ७३४

कस्यचित् । (स्व् १०६१)

विश्वास-प्रस्तुतिः - ७३५

लोलैर् लोचनवारिभिः सशपथैः पादप्रणामैः प्रियैर्
अन्यास् ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।
पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते
यत् स्नेहोचितम् ईहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥७३५॥

मूलम् - ७३५

कस्यचित् । (अमरु ६१; स्व् १०६०, शा।प। ३३९५, सू।मु। ३७।१२)