विश्वास-प्रस्तुतिः - ७२६
दृष्टः कातरनेत्रया चिर्तरं बद्धाञ्जलिं याचित्
पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः ।
इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः
पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥७२६॥
मूलम् - ७२६

कस्यचित् । (अमरु ८१, स।क।आ।म् ७२६, शा।प। ३३८६, सू।मु। ३७।६)
विश्वास-प्रस्तुतिः - ७२७
संरुद्धाः कथम् अप्य् अमङ्गलभयात् पक्ष्मान्तरव्यापिनो’
प्य् उत्तानीकृतलोचनं निपुणया बास्पाम्भसां बिन्दवः ।
न्यस्यन्त्याः सहकारपल्लवम् अथ व्यानम्य पत्युः पुरो
धारावाहिभिर् एव लोचनजलैर् यात्राघटः पूरितः ॥७२७॥
मूलम् - ७२७

धोयीकस्य ।
विश्वास-प्रस्तुतिः - ७२८
मुग्धे प्रेषय यामि यान्ति पथिकाः कालो’वधिः कथ्यताम्
उद्विग्ना किम् अकाण्ड एव भवती तूष्णीं किम् एवं स्थिता ।
पूर्वोक्त्योपरतां प्रियेण दयिताम् आश्लिष्य तत्तत्कृतं
दत्तो येन समस्तपान्थनिवहप्राणान्तिको डिण्डिमः ॥७२८॥
मूलम् - ७२८

कस्यचित् । (स्व् १०६२)
विश्वास-प्रस्तुतिः - ७२९
आपृष्टासि विनिर्गतो’ध्वगजनस् तन्वङ्गि गच्छाम्य् अहं
स्वल्पैर् एव दिनैः समागम इति ज्ञात्वा शुचं मा कृथाः ।
इत्य् आकर्ण्य वचः प्रियस्य सहसा तन्मुग्धया चेष्टितं
येनाकाण्डसमाप्ततीव्रविरहक्लेशः कृतो वल्लभः ॥७२९॥
मूलम् - ७२९

कस्यचित् । (स्व् १०५४)
विश्वास-प्रस्तुतिः - ७३०
भ्रातर् बाष्प मुहुर् विमुञ्च नयनं यावत् तिरोधीयते
नायं निष्करुणः पुरा निरवधिर् भावी तथैवोदयः ।
इत्य् आकर्ण्य वियोगमुग्धमनसः स्वप्नोपनीतं वचः
सञ्जाता दयितस्य योजनशतं शय्योपकण्ठस्थली ॥७३०॥
मूलम् - ७३०

जलचन्द्रस्य ।