विश्वास-प्रस्तुतिः - ७२१
दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते वक्त्रवन्
न्यग्भूतं बहिर् आसितं पुलकवत् स्पर्शं समातन्वति ।
नीवीबन्धवदागतं शिथिलतां सम्भाषमाणे ततो
मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥७२१॥
मूलम् - ७२१

कस्यचित् । (स।क।आ।व् १५।४९६, शा।प। ३५८१, सू।मु। ५८।२, सु।र। ६९९)
विश्वास-प्रस्तुतिः - ७२२
चेतस्य् अङ्कुरितं विसारिणि दृशोर् द्वन्द्वे द्विपत्रायितं
प्रायं पल्लवितं वचस्य् उपचितं प्रौढं कपोलस्थले ।
तत्तत्कोपविचेष्टिते कुसुमितं पादानते तु प्रिये
मानिन्यां फलितं तु मानतरुणा पर्यन्तबन्ध्यायितम् ॥७२२॥
मूलम् - ७२२

राजशेखरस्य । (सु।र। ६७९)
विश्वास-प्रस्तुतिः - ७२३
एकस्मिन् शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर्
अन्योन्यस्य हृदि स्थिते’प्य् अनुनये संरक्षतोर् गौरवम् ।
दम्पत्योः शनकैर् अपाङ्गवलनान् मिश्रीभवच्चक्षुषोर्
भग्नो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहम् ॥७२३॥
मूलम् - ७२३

अमरोः (अमरु १९, स्व् २११२, शा।प। ३७१५, सू।मु। ८१।८, सु।र। ६६७)
विश्वास-प्रस्तुतिः - ७२४
दूराद् उत्सुकम् आगते विवलितं सम्भाषिणि स्फारितं
संश्लिष्यत्य् अरुणं गृहीतवसने किञ्चिन् नतभ्रूलतम् ।
मानिन्याश् चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं
चक्षुर् जातम् अहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥७२४॥
मूलम् - ७२४

तस्यैव । (अमरु ४४, सू।मु। ५५।३, सु।र। ६४१)
विश्वास-प्रस्तुतिः - ७२५
सुतनु जहिहि कोपं पश्य पादानतं मां
न खलु तव कदाचित् कोप एवं विधो’भूत् ।
इति निगदति नाथे तिर्यगामीलिताक्ष्या
नयनजलम् अनल्पं मुक्तम् उक्तं न किञ्चित् ॥७२५॥
मूलम् - ७२५

तस्यैव (अमरु ३५, स्व् १६००, शा।प। ३५७७, सू।मु। ५७।३३, सु।र। ६७८)