विश्वास-प्रस्तुतिः - ७१६
रम्भोरु क्षिप लोचनार्धम् अभितो बाणान् वृथा मन्मथः
सन्धत्तां धनुर् उज्झतु क्षणम् इतो भ्रूवल्लिम् उल्लासय ।
किं चान्तर् निहितानुरागमधुराम् अव्यक्तवर्णक्रमां
मुग्धे वाचम् उदीरयास्तु जगतो वीणासु भेरीभ्रमः ॥७१६॥
मूलम् - ७१६

भेरीभ्रमकस्य । (सु।र। ४५०)
विश्वास-प्रस्तुतिः - ७१७
किम् इति कवरी यादृक् तादृग् दृशौ किम् अञ्जने
मृगमदमसीपत्रन्यासः स किं न कपोलयोः ।
अयम् असमयं किं च क्लाम्यत्य् असंस्मरणेन ते
शशिमुखि सखीहस्तन्यस्तो विलासपरिच्छदः ॥७१७॥
मूलम् - ७१७

अभिनन्दस्य । (स।क।आ। ४।१९३, सु।र। ७३१)
विश्वास-प्रस्तुतिः - ७१८
प्रिये मौनं मुञ्च श्रुतिर् अमृतधारां पिबतु मे
दृशाव् उन्मील्येतां भवतु जगद् इन्दीवरमयम् ।
प्रसीद प्रेमापि प्रशमयतु निःशेषम् अधृती
रभूमिः कोपानां ननु निरपराधः परिजनः ॥७१८॥
मूलम् - ७१८

डिम्बोकस्य । (सु।र। ६७०)
विश्वास-प्रस्तुतिः - ७१९
यदि विनिहिता शून्या दृष्टिः किम् उ स्थिरकौतुका
यदि विरचितो मौने यत्नः किम् उ स्फुरितो’धरः ।
यदि नियमितं ध्याने चक्षुः कथं पुलकोद्गमः
कृतम् अभिनयैर् दृष्टो मानः प्रसीद किम् उच्यताम् ॥७१९॥
मूलम् - ७१९

अमरोः । (स्व् १६२५, सु।र। ६३८)
विश्वास-प्रस्तुतिः - ७२०
कपोले पत्राली करतलनिरोधेन मृदिता
निपीतो निःश्वासैर् अयम् अमृतहृद्यो’धररसः ।
मुहुः कण्ठे लग्नस् तरलयति बाष्पः स्तनतटं
प्रियो मन्युर् जातस् तव निरनुरोधे न तु वयम् ॥७२०॥
मूलम् - ७२०

कस्यचित् । (अमरु ६७; सु।र। ६६४, स।क।आ।व् ४८९, स्व् १६२७)