विश्वास-प्रस्तुतिः - ७०६
किं पादान्ते लुठसि विमनाः स्वामिनो हि स्वतन्त्राः
कञ्चित् कालं क्वचिद् अभिरतस् तत्र कस् ते’पराधः ।
आगस्कारिण्य् अहम् इह यया जीवितं तद्वियोगे
भर्तृप्राणाः स्त्रिय इति ननु त्वं ममैवानुनेयः ॥७०६॥
मूलम् - ७०६

भावदेव्याः । [सु।र। ६४३ वाक्कूटस्य; सू।मु। ५७।१४; पद्या। ३८१ कस्यचित्]
विश्वास-प्रस्तुतिः - ७०७
तथाभूद् अस्माकं प्रथमम् अविभिन्ना तनुर् इयं
ततो नु त्वं प्रेयान् अहम् अपि हताशा प्रियतमा ।
इदानीं नाथस् त्वं वयम् अपि कलत्रं किम् अपरं
मयाप्तं प्राणानां कुलिशकठिनानां फलम् इदम् ॥७०७॥
मूलम् - ७०७

अमरोः । (अमरु ६६, स्व् १६२२, सु।र। ६४६)
विश्वास-प्रस्तुतिः - ७०८
भवतु विदितं छद्मालापैर् अलं प्रिय गम्यतां
तनुर् अपि न ते दोषो’स्माकं विधिस् तु पराङ्मुखः ।
तव यथा तथाभूतं प्रेम प्रपन्नम् इमां दशां
प्रकृतिचपले का नः पीडा गते हतजीविते ॥७०८॥
मूलम् - ७०८

तस्यैव (अमरु २७; स्व् १६१७, सू।मु। ५७।६, सु।र। ६५७, पद्या। २२३)
विश्वास-प्रस्तुतिः - ७०९
कोपो यत्र भ्रूकुटिरचना निग्रहो यत्र मौनं
यत्रान्योन्यस्मितम् अनुनयो यत्र दृष्टिः प्रसादः ।
तस्य प्रेम्णस् तद् इदम् अधुना वैषमं पश्य जातं
त्वं पादान्ते लुठसि नहि मे मन्युमोक्षः खलायाः ॥७०९॥
मूलम् - ७०९

तस्यैव (अमरु ३४; द।रू॥ २।१९, स्व् १६३०, शा।प। ३५६२, सू।मु। ८४।७, सु।र। ६४८)
विश्वास-प्रस्तुतिः - ७१०
यदा त्वं चन्द्रोभूर अविकलकलापेशलवपु
स्तदार्द्रा जाताहं शशधरमणीनां प्रकृतिभिः ।
इदानीम् अर्कस् त्वं खररुचि समुत्सारितरसः
किरन्ती कोपाग्नीन् अहम् अपि रविग्रावघटिता ॥७१०॥
मूलम् - ७१०

अचलस्य । (शा।प। ३५६४, सू।मु। ५७।२०, सु।र। ६४७)