०४७ मानिन्यां सखीप्रबोधः

विश्वास-प्रस्तुतिः - ७११

कियन्मात्रं गोत्रस्खलनम् अपराद्धं चरणयो
श्चिरं लोठत्य् एष ग्रहवति न मानाद् विरमसि ।
रुषं मुञ्चामुञ्च प्रियम् अनुगृहानायतिहितं
शृणु त्वं यद् ब्रूमः प्रियसखि न माने कुरु मतिम् ॥७११॥

मूलम् - ७११

कियन्मात्रं गोत्रस्खलनम् अपराद्धं चरणयो
श्चिरं लोठत्य् एष ग्रहवति न मानाद् विरमसि ।
रुषं मुञ्चामुञ्च प्रियम् अनुगृहानायतिहितं
शृणु त्वं यद् ब्रूमः प्रियसखि न माने कुरु मतिम् ॥७११॥

मनोकस्य । (सु।र। ६८०)

विश्वास-प्रस्तुतिः - ७१२

असद्वृत्तो नायं न च सखि गुणैर् एष रहितः
प्रियो मुक्ताहारस् तव चरणमूले निपतितः ।
गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिता
मुपायो नास्त्य् अन्यो हृदयपरितापोपशमने ॥७१२॥

मूलम् - ७१२

असद्वृत्तो नायं न च सखि गुणैर् एष रहितः
प्रियो मुक्ताहारस् तव चरणमूले निपतितः ।
गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिता
मुपायो नास्त्य् अन्यो हृदयपरितापोपशमने ॥७१२॥

कस्यचित् । (सू।मु। ५६।१०, सु।र। ६५८)

विश्वास-प्रस्तुतिः - ७१३

लिखन्न् आस्ते भूमिं बहिर् अवनतः प्राणदयितो
निराहाराः स्कह्यः सततरुदितोच्छूणनयनाः ।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्
तवावस्था चेयं विसृज कठिने मानम् अधुना ॥७१३॥

मूलम् - ७१३

लिखन्न् आस्ते भूमिं बहिर् अवनतः प्राणदयितो
निराहाराः स्कह्यः सततरुदितोच्छूणनयनाः ।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्
तवावस्था चेयं विसृज कठिने मानम् अधुना ॥७१३॥

अमरोः (अमरु ७; शा।प। ३५५१, सू।मु। ५६।५, रस्क् २।२०६अ)

विश्वास-प्रस्तुतिः - ७१४

यद् एतत् ते मौनं स्मितम् उदयते यन् न वदने
यद् अव्यक्ता दृष्टिर् यद् अभिमुखवामः स्थितिरसः ।
उपास्यानाम् ईदृग्विमतिषु हतप्रश्रयतया
हृदा दूरं याति प्रियसखि नवीनः परिजनः ॥७१४॥

मूलम् - ७१४

यद् एतत् ते मौनं स्मितम् उदयते यन् न वदने
यद् अव्यक्ता दृष्टिर् यद् अभिमुखवामः स्थितिरसः ।
उपास्यानाम् ईदृग्विमतिषु हतप्रश्रयतया
हृदा दूरं याति प्रियसखि नवीनः परिजनः ॥७१४॥

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - ७१५

पाणौ शोणतले तनूदरि दरक्षामा कपोलस्थली
विन्यस्ताञ्जनदिग्धलोचनजलैः किं म्लानिमानीयते
मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित् कन्दली
मुन्मीलन्नवमालतीपरिमलः किं तेन विस्मर्यते ॥७१५॥

मूलम् - ७१५

पाणौ शोणतले तनूदरि दरक्षामा कपोलस्थली
विन्यस्ताञ्जनदिग्धलोचनजलैः किं म्लानिमानीयते
मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित् कन्दली
मुन्मीलन्नवमालतीपरिमलः किं तेन विस्मर्यते ॥७१५॥

पाणिनेः । (सु।र। ६५१)