०४६ अनुरक्तमानिनी

विश्वास-प्रस्तुतिः - ७०१

वलतु तरला धृष्टा दृष्टिः खला सखि मेखला
स्खलतु कुचयोर् उत्कम्पान् मे विदीर्यन्तु कञ्चुकम् ।
तद् अपि न मया सम्भाव्यो’सौ पुनर् दयितः शठः
स्फुटति हृदयं मौनेनान्तर् न मे यदि तत्क्षणात् ॥७०१॥

मूलम् - ७०१

अमरोः । (सु।र। ६३६)

विश्वास-प्रस्तुतिः - ७०२

भ्रूभङ्गे रचिते’पि दृष्टिर् अधिकं सोत्कण्ठम् उद्वीक्षते
कार्कश्यं गमिते’पि चेतसि तनूरोमाञ्चम् आलम्बते ।
रुद्धायाम् अपि वाचि सस्मितम् इदं दग्धाननं जायते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिन् जने ॥७०२॥

मूलम् - ७०२

तस्यैव (अमरु २४; सु।र। ६९५, स्भ् १५८०; उ।नी। ५।२५)

विश्वास-प्रस्तुतिः - ७०३

भ्रूभेदो रचितः चिरं नयनयोर् अभ्यस्तम् आमीलनं
रोद्धुं शिक्षितम् आदरेण हसितं मौने’भियोगः कृतः ।
धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथञ्चिन् मया
बद्धो मानपरिग्रहे परिकरः सिद्धिस् तु दैवस्थिता ॥७०३॥

मूलम् - ७०३

धर्मकीर्तेः (अमरु ९२; सु।र। ६४५, पद्या॥ २३१)

विश्वास-प्रस्तुतिः - ७०४

तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता चान्यतस्
तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
हस्ताभ्याम् अपि वारितः सपुलकः स्वेदोद्गमो गण्डयोः
सख्यः किं करवाणि यान्ति सहसा यत् कञ्चुके सन्धयः ॥७०४॥

मूलम् - ७०४

अमरोः (अमरु ११, स्व् १५८१, शा।प। ३५३५, सु।र। ६४०)

विश्वास-प्रस्तुतिः - ७०५

स्फुटतु हृदयं कामं कामं करतु तनुं तनुं
न सखि चटुलप्रेम्णा कार्यं पुनर् दयितेन मे ।
इति सरभसं मानाटोपाद् उदीर्य वचस् तया
रमणपदवी सारङ्गाक्ष्या सशङ्कितम् ईक्षिता ॥७०५॥

मूलम् - ७०५

तस्यैव (अमरु ७१ (६१); सु।र। ६६६, सू।मु। ५५।१)