विश्वास-प्रस्तुतिः - ६९१
बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं
खेदो’स्मासु न मे’पराध्यति भवान् सर्वे’पराधा मयि ।
तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते
नन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतो रुद्यते ॥६९१॥
मूलम् - ६९१

अमरोः (अमरु ५३; द।रू। २।१७; स्व् १६१४, शा।प। ३५५४, सू।मु। ५७।१, सु।र। ६५३)
विश्वास-प्रस्तुतिः - ६९२
एकत्रासनसंस्थितिः परिहता प्रतुद्गमाद् दूरतस्
ताम्बूलानयनच्छलेन रभसाशेल्षो’पि संविघ्नितः ।
आलापो’पि न मिश्रितः परिजनं व्यापारयन्त्य् आन्तिके
कान्तं प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः ॥६९२॥
मूलम् - ६९२

तस्यैव (अमरु १७, सु।र। ६३९, स्व् १५८३, शा।प। ३५३४, सू।मु। ५५।६, द।रू। २।१९, रस्क् २।६७ग्)
विश्वास-प्रस्तुतिः - ६९३
आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात्
व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।
मय्यालापवति प्रतीपवचनं सख्या सहाभाषते
तस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥६९३॥
मूलम् - ६९३

तस्यैव (स्व्। १५९०, शा।प। ३५३७, सू।मु। ५५।११)
विश्वास-प्रस्तुतिः - ६९४
धूमायते मनसि मूर्च्छति चेष्टितेषु
सन्दीप्यते वपुषि चेतसि जाज्वलीति ।
वक्त्रे परिस्फुरति वाचि विजृम्भते’स्याः
कान्तावमानजनितो बहुमानवह्निः ॥६९४॥
मूलम् - ६९४
धूमायते मनसि मूर्च्छति चेष्टितेषु
सन्दीप्यते वपुषि चेतसि जाज्वलीति ।
वक्त्रे परिस्फुरति वाचि विजृम्भते’स्याः
कान्तावमानजनितो बहुमानवह्निः ॥६९४॥
कस्यचित् ।
विश्वास-प्रस्तुतिः - ६९५
बाष्पासारः कथयति भृशं गण्डयोः पाण्डिमानं
श्वासो भूम्ना स्तनकलसयोः पीनताम् आतनोति ।
चित्तौत्सुक्यं किम् अपि कुरुते क्षामम् अङ्गं तद् अस्यास्
तारुण्यस्य प्रसम् अधिकं मन्युर् आविष्करोति ॥६९५॥
मूलम् - ६९५