विश्वास-प्रस्तुतिः - ६६६
दृष्टो’यं विषवत् पुरा परिजनो दृष्टायतिर् वारयन्
पौर्वापर्यविदां त्वया नहि कृताः कर्णे सखीनां गिरः ।
हस्ते चन्द्रम् इवावतार्य सरले धूर्तेन धिग्वञ्चिता
तत् किं रोदिषि किं विषदसि किम् उन्निद्रासि किं दूयसे ॥६६६॥
मूलम् - ६६६

कस्यचित् ।
विश्वास-प्रस्तुतिः - ६६७
ज्ञातं ज्ञातिजनैः प्रघुष्टम् अयशो दूरं गता धीरता
त्यक्ता ह्रीः प्रतिपादितो’प्य् अविनयः साध्वीपदं प्रोज्झितम् ।
लुप्ता चोभयलोकसाधुपदवीदत्तः कलङ्कः कुले
भूयो दूति किम् अन्यद् अस्ति यद् असाव् अद्यापि नागच्छति ॥६६७॥
मूलम् - ६६७

कस्यचित् । (शा।प। ३६१६, सू।मु। ७१।१४)
विश्वास-प्रस्तुतिः - ६६८
सखि स विजितो वीणावाद्यैः कयाप्य् अपरस्त्रिया
पणितम् अभवत् ताभ्यां तव क्षपाललितं ध्रुवम् ।
कथम् इतरथा शेफालीषु स्खलत्कुसुमास्व् अपि
प्रसरति नभोमध्ये’पीन्दौ प्रियेण विलम्ब्यए ॥६६८॥
मूलम् - ६६८

रुद्रटस्य । (पद्या। २१३; दशरूपक २।२३; शृ।ति। १।७८अद्)
विश्वास-प्रस्तुतिः - ६६९
सोत्कण्ठं रुदितं सकम्पम् असकृद् यातं सबाष्पं चिरं
चक्षुर् दिक्षु निवेशितं सकरुणं सख्या समं जल्पितम् ।
नागच्छत्य् उचिते’पि वासकविधौ कान्ते समुद्विग्नया
तत् तत् किञ्चिद् अनुष्ठितं मृगदृशा नो यत्र वाचां गतिः ॥६६९॥
मूलम् - ६६९

तस्यैव । (शृ।ति। १।७९अ)
विश्वास-प्रस्तुतिः - ६७०
यत् सङ्केतगृहं प्रियेण कथितं सम्प्रेष्य दूतीं स्वयं
तच् छून्यं सुचिरं निषेव्य सुदृशा पश्चाच् च भग्नाशया ।
स्थानोपासनसूचनाय विगलत्सान्द्राञ्जनैर् लोचनैर्
भूमाव् अक्षरमालिकेव लिखिता दीर्घं रुदत्या शनैः ॥६७०॥
मूलम् - ६७०

रुद्रटस्य । (शृ।ति। १।७८अ)