०३७ वासकसज्जा

विश्वास-प्रस्तुतिः - ६५६

तल्पं कल्पितम् एव कल्पयति सा भूयस् तनुं मण्डितां
भूयो मण्डयति स्वयं रतिपतेर् अङ्गीकरोत्य् अर्चनाम् ।
गच्छन्त्यां निशि मन्यते क्षतिम् इव द्वारं चिरं सेवते
लीलावेश्मनि सा करोति मदनक्लान्ता वराकी न किम् ॥६५६॥

मूलम् - ६५६

आचार्यगोपीकस्य ।

विश्वास-प्रस्तुतिः - ६५७

दृष्ट्वा दर्पणमण्डले निजमुखं भूषां मनोहारिणीं
दीपार्चिःकपिशं च मोहनगृहं त्रस्यात्कुरङ्गीदृशा ।
एवं नौ सुरतं भविष्यति चिराद् अद्येति सानन्दया
मन्दं कान्तदिदृक्षयातिललितं द्वारे दृगारोपित्ं ॥६५७॥

मूलम् - ६५७

रुद्रटस्य । (शृ।ति। १।७६अ)

विश्वास-प्रस्तुतिः - ६५८

अलसवलितैः प्रेमार्द्रार्द्रैर् मुहुर् मुकुलीकृतैः
क्षणम् अभिमुखैर् लज्जालोलैर् निमेषपराङ्मुखैः ।
हृदयनिहितं भावाकूतं वमद्भिर् इवेक्षणैः
कथय सुकृती को’यं मुग्धे त्वयाद्य विलोक्यते ॥६५८॥

मूलम् - ६५८

अमरोः । (अमरु ४, सु।र। ५०८; स्व् १०९८, शा।प। ३४१६, सू।मु। ३९।४)

विश्वास-प्रस्तुतिः - ६५९

अङ्गेष्व् आभरणं करोति बहुशः पत्रे’पि सञ्चारिणि
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्य् आकल्पविकल्पतल्परचनासङ्कल्पलीलाशत
व्यासक्तापि विना त्वया वरतनुर् नैषा निशां नेष्यति ॥६५९॥

मूलम् - ६५९

जयदेवस्य । (ग्ग् ६।३)

विश्वास-प्रस्तुतिः - ६६०

अरतिर् इयम् उपैति मां न निद्रा
गणयति तस्य गुणान् मनो न दोषान् ।
विरमति रजनी न सङ्गम् आशा
व्रजति तनुस् तनुतां न चानुरागः ॥६६०॥

मूलम् - ६६०

अरतिर् इयम् उपैति मां न निद्रा
गणयति तस्य गुणान् मनो न दोषान् ।
विरमति रजनी न सङ्गम् आशा
व्रजति तनुस् तनुतां न चानुरागः ॥६६०॥

प्रवरसेनस्य । (सु।र। ७२३, शा।प। ३४२७ बिल्हणस्य, पद्या। २१४)