विश्वास-प्रस्तुतिः - ६३६
सा धैर्याम्बुमरुस्थली विसृमरज्वालः स तापानलस्
ते मुक्तामणयः कठोरतरुणज्वालामुचः शर्कराः ।
कर्पूरस्य रजांसि बालुकम् असाव् अस्यास् तु जीवाध्वगः
क्वापि क्वाप्य् उपयाति मुह्यति मुहुः क्वाप्î क्वचिन् मूर्च्छति ॥६३६॥
मूलम् - ६३६

महादेवस्य ।
विश्वास-प्रस्तुतिः - ६३७
मृगशिशुदृशस् तस्यास् तापं कथं कथयामि ते
दहनपतिता दृष्टा मूर्तिर् मया न हि वैधवी ।
इति तु नियतं नारीरूपः स लोकदृशां प्रिय
स्तव शठतया शिल्पोत्कर्षो विधेर् विघटिष्यते ॥६३७॥
मूलम् - ६३७

वाचस्पतेः । (द।रू। २।२९, सु।र। ५५७)
विश्वास-प्रस्तुतिः - ६३८
एतस्याः स्मरसञ्ज्वरः करतलस्पर्शैः परीक्ष्यो’द्य नः
स्निग्धेनापि जनेन दाहभयतः प्रस्थं पचः पाथसाम् ।
निर्वीर्यीकृतचन्दनौषधविधौ तस्मिंश् चटत्कारिणो
लाजस्फोटम् अमी स्फुटन्ति मणयो विश्वे’पि हारस्रजाम् ॥६३८॥
मूलम् - ६३८

राजशेखरस्य । (बा।रा। ५।११, सु।र। ७११)
विश्वास-प्रस्तुतिः - ६३९
स्नाता निष्पतयालुलोचनपयः पुण्यस्रवन्तीजलैर्
अध्यास्ते नवचन्दनार्द्रनलिनीसंवर्तिकावेदिकाम् ।
प्रत्येकं स्मरजातवेदसि निजान्य् अङ्गानि हुत्वा क्षणाद्
इन्दोर् अभुदयेन दास्यति पुनः सा प्राणपूर्णाहुतिम् ॥६३९॥
मूलम् - ६३९

धर्मयोगेश्वरस्य ।
विश्वास-प्रस्तुतिः - ६४०
माल्यं मृणालवलयानि जलं जलार्द्रा
कर्पूरहारहरिचन्दनचर्चितानि ।
तस्या नवेन्दुकिरणाश् च न तापशान्त्यै
त्वत्सङ्गसाध्यविरहज्वरजर्जरायाः ॥६४०॥
मूलम् - ६४०
माल्यं मृणालवलयानि जलं जलार्द्रा
कर्पूरहारहरिचन्दनचर्चितानि ।
तस्या नवेन्दुकिरणाश् च न तापशान्त्यै
त्वत्सङ्गसाध्यविरहज्वरजर्जरायाः ॥६४०॥
पुरुषोत्तमदेवस्य ।