०३० प्रियसम्बोधनम्

विश्वास-प्रस्तुतिः - ६२१

विलिम्पन्त्य् एतस्मिन् मलयजरसार्द्रेण महसा
दिशं चक्रं चन्द्रे सुकृतमय तस्या मृगदृशः ।
दृशोर् बाष्पः पाणौ वदनम् असवः कण्ठकुहरे
हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः ॥६२१॥

मूलम् - ६२१

विलिम्पन्त्य् एतस्मिन् मलयजरसार्द्रेण महसा
दिशं चक्रं चन्द्रे सुकृतमय तस्या मृगदृशः ।
दृशोर् बाष्पः पाणौ वदनम् असवः कण्ठकुहरे
हृदि त्वं ह्रीः पृष्ठे वचसि च गुणा एव भवतः ॥६२१॥

अचलसिंहस्य । (सु।र। ५३७, स।क।आ।व् ६१४, सू।मु। ४४।७)

विश्वास-प्रस्तुतिः - ६२२

मुखेन्दुः प्रभ्रश्यन्नयनजलबिन्दुः करतले
मृणालीहारो’पि ज्वर इव परीतापजनकः ।
प्रियङ्गुश्यामाङ्ग्याः सुकृतमय वक्रे त्वयि मना
गनाख्येयावस्थो रतिरमणबाणव्यतिकरः ॥६२२॥

मूलम् - ६२२

मुखेन्दुः प्रभ्रश्यन्नयनजलबिन्दुः करतले
मृणालीहारो’पि ज्वर इव परीतापजनकः ।
प्रियङ्गुश्यामाङ्ग्याः सुकृतमय वक्रे त्वयि मना
गनाख्येयावस्थो रतिरमणबाणव्यतिकरः ॥६२२॥

तस्यैव ।

विश्वास-प्रस्तुतिः - ६२३

चन्द्रं चन्दनकर्दमेन लिखितं सा मार्ष्टि दष्टाधरा
वन्द्यं निन्दति यच् च मन्मथम् असौ भङ्क्त्वाग्रहस् ताङ्गुलीः ।
कामः पुष्पशरः किलेत् सुमनोवर्गं लुनीते च यत्
तत् कां सा सुभग त्वया वरत्तनुर् बातूलतां लम्भिता ॥६२३॥

मूलम् - ६२३

राजशेखरस्य । (वि।शा।भ। २।२०, सु।र। ५४१, सू।मु। ४४।९)

विश्वास-प्रस्तुतिः - ६२४

उन्मीलन्ति नखैर् लुनीहि वहति क्षौमाञ्चलेनावृणु
क्रीडाकाननम् आविशन्ति वलयक्वाणैः समुत्रासय ।
इत्थं पल्लवदक्षिणानिलकुहूकण्ठीषु साङ्केतिक
व्याहाराः सुभग त्वदीयविरहे राधासखीनां मिथः ॥६२४॥

मूलम् - ६२४

उन्मीलन्ति नखैर् लुनीहि वहति क्षौमाञ्चलेनावृणु
क्रीडाकाननम् आविशन्ति वलयक्वाणैः समुत्रासय ।
इत्थं पल्लवदक्षिणानिलकुहूकण्ठीषु साङ्केतिक
व्याहाराः सुभग त्वदीयविरहे राधासखीनां मिथः ॥६२४॥

अमरोः । (शा।प। ३४८९ सत्कविचन्द्रस्य; सू।मु। ४४।१३; स्द् १०।७९; पद्या। ३६० शम्भोः)

विश्वास-प्रस्तुतिः - ६२५

दरपरिणतदूर्वादुर्बलाम् अङ्गलेखां
ग्लपयति न यद् अस्याः श्वासजन्मा हुताशः ।
स खलु सुभग मन्ये लोचनद्वन्द्ववारा
मविरतपटुधारावाहिनीनां प्रभावः ॥६२५॥

मूलम् - ६२५

दरपरिणतदूर्वादुर्बलाम् अङ्गलेखां
ग्लपयति न यद् अस्याः श्वासजन्मा हुताशः ।
स खलु सुभग मन्ये लोचनद्वन्द्ववारा
मविरतपटुधारावाहिनीनां प्रभावः ॥६२५॥

धीयीकस्य ।