विश्वास-प्रस्तुतिः - ६१६
वक्त्रेन्दोर् न हरन्ति बाष्पपयसां धारामनोज्ञां श्रियं
निःश्वासा न कदर्थयन्ति मधुरां बिम्बाधरस्य द्युतिम् ।
तन्व्यास् त्वद्विरहे विपक्वलवलीलावण्यसंवादिनी
छाया कापि कपोलयोर् अनुदिनं तस्याः परं शुष्यति ॥६१६॥
मूलम् - ६१६

धर्मकीर्तेः । (सु।र। ५३९)
विश्वास-प्रस्तुतिः - ६१७
लावण्येन पिधीयतेङ्गतनिमा सन्धार्यते जीवितं
त्वद्ध्यानैः सततं कुरङ्गकदृशः किन्त्व् एतद् आस्ते नवम् ।
निःश्वासैः कुचकुम्भपीठलुठनप्रत्युद्गमान् मांसलैः
श्यामीभूतकपोलम् इन्दुर् अधुना यत् तन् मुखं स्पर्धते ॥६१७॥
मूलम् - ६१७

शृङ्गारस्य । (सु।र। ५३५)
विश्वास-प्रस्तुतिः - ६१८
त्वदर्थिनी चन्दनभस्मदिग्ध
ललाटलेखाश्रुजलाभिषिक्ता ।
मृणालचीरं दधती स्तनाभ्यां
स्मरोपदिष्टं चरति व्रतं सा ॥६१८॥
मूलम् - ६१८
त्वदर्थिनी चन्दनभस्मदिग्ध
ललाटलेखाश्रुजलाभिषिक्ता ।
मृणालचीरं दधती स्तनाभ्यां
स्मरोपदिष्टं चरति व्रतं सा ॥६१८॥
कस्यचित् । (स्व् १३९३, सु।र। ५४५)
विश्वास-प्रस्तुतिः - ६१९
श्रोत्रं त्वद्गुणजालपूरितम् अभूद् बाष्पाम्बुपूरे दृशौ
किञ्चास्या मुखम् अन्धकारितम् अभून् निःश्वासवातोर्मिभिः ।
चण्डालस् तव शोकवह्निर् अभितो धन्वी जिघांसुः स्मरस्
तस्याः कण्ठगतागतानि दधति प्राणाः कुरङ्गोपमाः ॥६१९॥
मूलम् - ६१९

दनोकस्य ।
विश्वास-प्रस्तुतिः - ६२०
कण्ठे जीवितमानने तव गुणाः पाणौ कपोलस्तनौ
सन्तापस् त्वयि मानसं नयनयोर् अच्छिन्नधारं पयः ।
सर्वं निष्करुण त्वदीयविरहे सालम्बनं किं पुनस्
तस्याः सम्प्रति जीविते बत सखीवर्गो निरालम्बनः ॥६२०॥
मूलम् - ६२०

जलचन्द्रस्य ।