विश्वास-प्रस्तुतिः - ६०१
श्वासास् ताण्डवितालकाः करतले सुप्ता कपोलस्थली
नेत्रे बाष्पतरङ्गिते परिणतः कण्ठे कलः पञ्चमः ।
अङ्गेषु प्रथमप्रबुद्धफलिनी लावण्यसंवादिनी
पाण्डिम्ना विरहोचितेन गमिता कान्तिः कथाशेषताम् ॥६०१॥
मूलम् - ६०१

शधोकस्य । (सु।र। ७२९)
विश्वास-प्रस्तुतिः - ६०२
कस्मान् म्लायसि मालतीव मृदितेत्य् आलीजने पृच्छति
व्यक्तं नोदितम् आर्तयापि विरहे शालीनया बालया ।
अक्ष्णोर् बाष्पभरं निगृह्य कथम् अप्य् आलोकितः केवलं
किञ्चित्कुड्मलकोटिभिन्नशिखरश् चूतद्रुमः प्राङ्गणे ॥६०२॥
मूलम् - ६०२

बाह्वटस्य । (सु।र। ७४१)
विश्वास-प्रस्तुतिः - ६०३
सा चन्द्राद् अपि मन्मथाद् अपि जलद्रोणीसमीराद् अपि
त्रस्ता मन्मथमत्तसिन्धुर् अकरक्रीडाविहारस्थली ।
क्रीडा कल्पितकालकण्ठकपटस्वर्भानुचक्षुःश्रवः
श्रेणी सम्भृतदुष्प्रवेशशिविरक्रीडान् न निष्क्रामति ॥६०३॥
मूलम् - ६०३

महादेवस्य ।
विश्वास-प्रस्तुतिः - ६०४
निःशेषा मणिपञ्जरावलिर् असौ दात्य् ऊहशून्या कृता
श्येना केलिवनेषु कोकिलकुलोच्छेदाय सञ्चारिताः ।
किं कुर्मः पुनर् अत्र रात्रिम् अखिलां कल्यक्वणत्कोकिला
केलीय्पञ्चमहुङ्कृतेः स्वयम् इयं यन् मृत्युम् आकाङ्क्षति ॥६०४॥
मूलम् - ६०४

शिल्हणस्य ।
विश्वास-प्रस्तुतिः - ६०५
प्रयातेस् तं भानौ श्रितशकुनिनीडेषु तरुषु
स्फुरत्सन्ध्यारागे शशिनि शनकैर् उल्लसति च ।
प्रियप्रत्याख्यानद्विगुणविरहोत्कण्ठितदृशा
तदारब्धं तन्व्या मरणम् अपि यत्रोत्सवपदम् ॥६०५॥
मूलम् - ६०५

लडूकस्य । (स्व् १०९०, शा।प। ३४०४)