विश्वास-प्रस्तुतिः - ५९६
कुचौ धत्तः कम्पं निपतति कपोलः करतले
निकामं निःश्वासः सकलम् अलकं ताण्डवयति ।
दृशः सामर्थ्यानि स्थगयति मुहुर् बाष्पसलिलं
प्रपञ्चो’यं किञ्चित् तव सखि हृदिस्थं कथयति ॥५९६॥
मूलम् - ५९६

अमरसिंहस्य । (सु।र। ७५०)
विश्वास-प्रस्तुतिः - ५९७
आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा
नासाग्रे नयनं यद् एतद् अपरं यच् चैकतानं मनः ।
मौनं चेदम् इदं च शून्यम् अखिलं यद् विश्वम् आभाति ते
तद् ब्रूयाः सखि योगिनी किम् असि भोः किं वियोगिन्य् अपि ॥५९७॥
मूलम् - ५९७

राजशेखरस्य । (पद्या। २३८, सु।र। ७०३ रजसेखर, उ।नी। १३।७५)
विश्वास-प्रस्तुतिः - ५९८
यत्तालीदलपाकपाण्डुवदनं यन्नेत्रयोर् दुर्दिनं
गण्डः पाणिनिषेवणाच् च यद् अयं सङ्क्रान्तपञ्चाङ्गुलिः ।
गौरी क्रुध्यतु वर्तते यदि न ते तत् को’पि चित्ते युवा
धिक् धिक् त्वां सहपांशुखेलनसखीवर्गे’पि यन्निह्नवः ॥५९८॥
मूलम् - ५९८

तस्यैव । (वि।शा।भ। २।१४, सू।मु। ३९।२, सु।र। ७१२)
विश्वास-प्रस्तुतिः - ५९९
यत्सम्भाषणलालसेव कुरुषे वक्त्रेन्दुम् अर्धोन्नतं
धत्से बाहुलतार्गलां कुचतटे निष्कान्तिभीत्य् एव यत् ।
किं वा मन्त्रयते जनो’यम् इति यत् सर्वत्र शङ्काकुला
तज् जाने हृदि को’पि तिष्ठति युवा प्रौढश् च गूढश् च ते ॥५९९॥
मूलम् - ५९९

शिल्हणस्य ।
विश्वास-प्रस्तुतिः - ६००
यद् दौर्बल्यं वपुषि महती सर्वतश् चास्पृहा यन्
नासालक्ष्यं यद् अपि नयनं मौनम् एकान्ततो यत् ।
एकाधीनं कथयति मनस् तावद् एषा दशा ते
कोसाव् एकः कथय सुमुखि ब्रह्म वा वल्लभो वा ॥६००॥
मूलम् - ६००

लक्ष्मीधरस्य । (सु।र। ७१५)