०२४ अन्यरतिचिह्नदुःखिता

विश्वास-प्रस्तुतिः - ५९१

हंहो कान्त रहोगतेन भवता यत्पूर्वम् आवेदितं
निर्भिन्ना तनुर् आवयोर् इति मया तज्ज्ञातम् अद्य स्फुटम् ।
कामिन्या स्मरवेदनाकुलहृदा यः केलिकाले कृतः
सो’त्यर्थं कथम् अन्यथा तुदति माम् एष त्वदोष्ठव्रणः ॥५९१॥

मूलम् - ५९१

कस्यचित् । (सु।र। ६२४)

विश्वास-प्रस्तुतिः - ५९२

अयं धूर्तो मायाविनयमधुराद् अस्य वचसः
सखि प्रत्येषि त्वं प्रकृतिसरले पश्यसि न किम् ।
कपोले यल्लाक्षाबहलरसरागप्रणयिनीम्
इमां धत्ते मुद्राम् अनतिचिरवृत्तान्तपिशुनाम् ॥५९२॥

मूलम् - ५९२

सोल्होकस्य । (सु।र। ६८५)

विश्वास-प्रस्तुतिः - ५९३

किम् एताः स्वच्छन्दं वितथशपथोक्तीर् वितनुषे
भजेथास् ताम् एव प्रियसहचरीं चित्तमधुराम् ।
यया याच्ञानम्रे तव शिरसि सौभाग्यगरिम
प्रशस्तिर् न्यस्तेयं चरणनखलाक्षारसमयी ॥५९३॥

मूलम् - ५९३

वामदेवस्य ।

विश्वास-प्रस्तुतिः - ५९४

लाक्षालक्ष्मललाटपट्टम् अभितः केयूरमुद्रा गले
वक्त्रे कज्जलकालिमा नयनयोर्स् ताम्बूलरागो घनः ।
दृष्टा कोपविधायि मण्डनम् इदं प्रातश् चिरं प्रेयसो
लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥५९४॥

मूलम् - ५९४

अमरोः (अमरु ५३ (८८); शा।प। ३७४०, स्भ् २२१५; सू।मु। ८२।१७; पद्या॥ २२२; दशरूपक २।६)

विश्वास-प्रस्तुतिः - ५९५

निद्राच्छेदकषायिते तव दृशौ दृष्टिर् ममालोहिनी
वक्षो मुष्टिभिर् आहतं तव हृदि स्फूर्जन्ति मे वेदनाः ।
आश्चर्यं नवकुन्दकुड्मलशिखा तीक्ष्णैर् अमीभिर् नखैः
प्रत्यङ्गं तव जर्जरा तनुर् अहं जाता पुनः खण्डिता ॥५९५॥

मूलम् - ५९५

उमापतिधरस्य ।