विश्वास-प्रस्तुतिः - ५८६
तव कितव किम् आभिर् वाग्भिर् अभ्यर्णचूत
क्षितिरुहि कलकण्ठालापम् आकर्णयन्ती ।
रजनिम् अहम् अलज्जाजागरं पांशुलानाम्
उषसि विघस न त्वां पाणिनापि स्पृशामि ॥५८६॥
मूलम् - ५८६
तव कितव किम् आभिर् वाग्भिर् अभ्यर्णचूत
क्षितिरुहि कलकण्ठालापम् आकर्णयन्ती ।
रजनिम् अहम् अलज्जाजागरं पांशुलानाम्
उषसि विघस न त्वां पाणिनापि स्पृशामि ॥५८६॥
धर्मयोगेश्वरस्य ।
विश्वास-प्रस्तुतिः - ५८७
सार्धं मनोरथशतैस् तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिमभावरम्या ।
अस्माकम् अस्ति न हि कश्चिद् इहावकाशस्
तस्मात् कृतं चरणपातविडम्बनाभिः ॥५८७॥
मूलम् - ५८७
सार्धं मनोरथशतैस् तव धूर्त कान्ता
सैव स्थिता मनसि कृत्रिमभावरम्या ।
अस्माकम् अस्ति न हि कश्चिद् इहावकाशस्
तस्मात् कृतं चरणपातविडम्बनाभिः ॥५८७॥
रुद्रटस्य । (शृ।ति। १।४१द्; शा।प। ३५६३; सू।मु। ५७।१६; स।क।आ।म् ५८७; पद्या॥ २१८)
विश्वास-प्रस्तुतिः - ५८८
पादान्ते पतितः प्रियः पततु न प्रव्यक्तबाष्पोद्गमः
सञ्जातः स न जायतां त्वम् अधुना तद्वक्त्रम् अत्रागता ।
एकाहं तटिनीतटान्तविटपागारे यदा जागरं
नासीत् कापि सखी तदा घनतः स्तोमावृतायां निशि ॥५८८॥
मूलम् - ५८८
पादान्ते पतितः प्रियः पततु न प्रव्यक्तबाष्पोद्गमः
सञ्जातः स न जायतां त्वम् अधुना तद्वक्त्रम् अत्रागता ।
एकाहं तटिनीतटान्तविटपागारे यदा जागरं
नासीत् कापि सखी तदा घनतः स्तोमावृतायां निशि ॥५८८॥
आचार्यगोपीकस्य ।
विश्वास-प्रस्तुतिः - ५८९
किं ते बाष्पस् तिरयति दृशो किं सकम्पो’धरस् ते
गण्डाभोगः कथय किम् उ ते कोपकेलीकषायः ।
निर्यर्यादे मम हि रजनी जागरक्लेशराशेर्
एकः साक्षी स खलु मुरलातीरवानीरकुञ्जः ॥५८९॥
मूलम् - ५८९
किं ते बाष्पस् तिरयति दृशो किं सकम्पो’धरस् ते
गण्डाभोगः कथय किम् उ ते कोपकेलीकषायः ।
निर्यर्यादे मम हि रजनी जागरक्लेशराशेर्
एकः साक्षी स खलु मुरलातीरवानीरकुञ्जः ॥५८९॥
वासुदेवस्य ।
विश्वास-प्रस्तुतिः - ५९०
ततश् चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा
मनस्विन्या रूढप्रणयकलहाविष्ठमनसा ।
अहो चित्रं चित्रं स्फुटम् इति लपन्त्याश्रुकलुषं
रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥५९०॥
मूलम् - ५९०
ततश् चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा
मनस्विन्या रूढप्रणयकलहाविष्ठमनसा ।
अहो चित्रं चित्रं स्फुटम् इति लपन्त्याश्रुकलुषं
रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥५९०॥
अमरुकस्य । (द।रू। ४।१७, स्व् १३२४)