विश्वास-प्रस्तुतिः - ५८१
यासां सत्य् अपि सद्गुणानुसरणे दोषानुबन्धः सदा
याः प्राणान् वरम् अर्पयन्ति न पुनः सम्पूर्णदृष्टिं प्रिये ।
अत्यन्ताभिमते’पि वस्तुनि विधिर् यासां निषेधात्मकस्
तास् त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु वः ॥५८१॥
मूलम् - ५८१

बिभोकस्य । (सा।द। ३।११६, सु।र।को। ३८४, शा।प॥ ३०७९)
विश्वास-प्रस्तुतिः - ५८२
दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस् ताः स्तुवे वामलोचनाः ॥५८२॥
मूलम् - ५८२
दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः ।
विरूपाक्षस्य जयिनीस् ताः स्तुवे वामलोचनाः ॥५८२॥
राजशेखरस्य । (सु।र। ३९५, वि।शा।भ। १।२, स्व्। १३०९, शा।प। ३०७८, सू।मु। ३७।२)
विश्वास-प्रस्तुतिः - ५८३
सो’नङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं
स्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिर् गुणः कार्मुके ।
एतत्साधन उत्सहेत स जगज् जेतुं कथं मन्मथस्
तस्यामोघम् अमूर् भवन्ति नहि चेद् अस्त्रं कुरङ्गीदृशः ॥५८३॥
मूलम् - ५८३

अमरसिंहस्य । (सु।र। ४०३)
विश्वास-प्रस्तुतिः - ५८४
यन्नामापि सुखाकरोति कलयत्य् उर्वीम् अपि द्याम् इव
प्राप्तिर् यस्य यदङ्गसङ्गविधिना किं यन् न निह्नूयते ।
अन्तः किं च सुधासपत्नम् अनिशं जागर्ति यद्रागिणां
विस्रम्भास्पदम् अद्भुतं किम् अपि तत्कान्तेति तत्त्वान्तरम् ॥५८४॥
मूलम् - ५८४

कस्यचित् । (सु।र। ४३५)
विश्वास-प्रस्तुतिः - ५८५
व्यर्थं विलोक्य कुसुमेषुम् असुव्यये’पि
गौरीपतीक्षणशिखिज्वलितो मनोभूः ।
रोषाद् वशीकरणम् अस्त्रम् उपाददे यत्
सा सुभ्रुवां विजयते जगति प्रतिष्ठा ॥५८५॥
मूलम् - ५८५

मनोविनोदस्य । (सु।र। ४४१)