०२० उदीच्यप्राच्ये

विश्वास-प्रस्तुतिः - ५७१

कान्तिं कुङ्कुमकेशरान् मधुरतां द्राक्षारसस्यासवाद्
वैदर्भीपरिपाकपूतवचसः काव्यात् कवेर् मार्दवम् ।
पार्श्वाद् एव जरातुरेण विधिना तं तं गृहीत्वा गुणं
सृष्टा हन्त हरन्ति कस्य न मनः कश्मीरवामभ्रुवः ॥५७१॥

मूलम् - ५७१

उमापतिधरस्य ।

विश्वास-प्रस्तुतिः - ५७२

हूणीनां हरिणाङ्कपाण्डुमधुरश्रीभाजि गण्डस्थले
शोभां काम् अपि बिभ्रति प्रणिहिताः कश्मीरविच्छित्तयः ।
अप्य् आसां स्तनमण्डले परिणमन् मालूरगौरे श्रियं
सन्धत्ते नवसान्ध्यरश्मिरुचिरं माञ्जिष्ठपट्टांशुकम् ॥५७२॥

मूलम् - ५७२

तस्यैव ।

विश्वास-प्रस्तुतिः - ५७३

उत्तरापथकान्तानां किं ब्रूमो रामणीयकम् ।
यासां तुषारसम्भेदे न म्लायति मुखाम्बुजम् ॥५७३॥

मूलम् - ५७३

उत्तरापथकान्तानां किं ब्रूमो रामणीयकम् ।
यासां तुषारसम्भेदे न म्लायति मुखाम्बुजम् ॥५७३॥

अमृतदत्तस्य ।

विश्वास-प्रस्तुतिः - ५७४

अत्रार्द्रचन्दनकुचार्पितसूत्रहार
सीमन्तचुम्बिसिचयस्फुटबाहुमूलः ।
दूर्वाप्रकाण्डरुचिरासु गुरूपभोगो
गौडाङ्गनासु चिरम् एष चकास्ति वेषः ॥५७४॥

मूलम् - ५७४

अत्रार्द्रचन्दनकुचार्पितसूत्रहार
सीमन्तचुम्बिसिचयस्फुटबाहुमूलः ।
दूर्वाप्रकाण्डरुचिरासु गुरूपभोगो
गौडाङ्गनासु चिरम् एष चकास्ति वेषः ॥५७४॥

राजशेखरस्य ।

विश्वास-प्रस्तुतिः - ५७५

वासः सूक्ष्मं वपुषि भुजयोः काञ्चनी चाङ्गदश्रीर्
मालागर्भः सुरभिमसृणैर् गन्धतैलैः शिखण्डः ।
कर्णोत्तंसे नवशशिकला निर्मलं तालपत्रं
वेशः केषां न हरति मनो बङ्गवाराङ्गनानाम् ॥५७५॥

मूलम् - ५७५

कस्यचित् ।