विश्वास-प्रस्तुतिः - ५५१
दशनपदम् अतिस्फुटं विभाति
स्फुरति तनुः श्रमवारिसिक्तम् आस्यम् ।
अवितथम् अभिधत्स कामिनि त्वां
कुटिलगतिर् न दष्टवान् भुजङ्गः ॥५५१॥
मूलम् - ५५१
दशनपदम् अतिस्फुटं विभाति
स्फुरति तनुः श्रमवारिसिक्तम् आस्यम् ।
अवितथम् अभिधत्स कामिनि त्वां
कुटिलगतिर् न दष्टवान् भुजङ्गः ॥५५१॥
कस्यचित् ।
विश्वास-प्रस्तुतिः - ५५२
न्यस्तं न स्तनमण्डले नखपदं कण्ठान् न विश्लेषिता
मुक्ता हारलता कपोलफलके लुप्ता न पत्रावली ।
मुग्धे यद्यपि तेन ते न दशनैर् भिन्नो’द्य बिम्बाधरस्
तद् वैलक्ष्यविजृम्भितैर् इह तथाप्य् उन्नीयते दुर्णयः ॥५५२॥
मूलम् - ५५२

श्रीमल्लक्ष्मणसेनस्य ।
विश्वास-प्रस्तुतिः - ५५३
निर्धौताञ्जनलक्ष्मनेत्रम् अरुणोच्छूना कपोलस्थली
क्रान्तेवाधरपालिर् अस्फुटमिलल्लेखा तटी पार्श्वयोः ।
निद्राघूर्णितनिष्प्रयत्नशिथिलान्य् अङ्गानि ते तद् वयं
नो विद्मः सखि सम्मुखः स भगवान् कस्याद्य पुष्पायुधः ॥५५३॥
मूलम् - ५५३

उमापतिधरस्य ।
विश्वास-प्रस्तुतिः - ५५४
मीलच्चक्षुरनुक्षणं पुलकिनी धत्से यद् अन्तर्मुदं
सावज्ञं यदुपान्तसङ्कुचितया दृष्ट्या पतिं पश्यसि ।
यद्वक्रास्व् अपि वेषभाषितकलास्व् अभ्यासम् आलम्बसे
तन् मन्ये सखि नागरस्य विषयं कस्यापि यातासि किम् ॥५५४॥
मूलम् - ५५४

तस्यैव ।
विश्वास-प्रस्तुतिः - ५५५
परिणतसखीवाङ्निर्वेदान् निवृत्तगृहग्रहे
सुदति मदनाद्वैताभ्यासान् निकुञ्जनिवासिनि ।
कनखलशिलोत्खेलद्गङ्गास्खलद्गुरुकीकसः
कथय कतमो वानप्रस्थाश्रमे’द्य तवातिथिः ॥५५५॥
मूलम् - ५५५

पादूकस्य ।