विश्वास-प्रस्तुतिः - ५४१
दृष्टिं हे प्रतिवेशिनि क्षणम् इहाप्य् अस्मद्गृहे दास्यसि
प्रायेणास्य शिशोः पिता न विरसाः कौपीरपः पास्यति ।
एकाकिन्य् अपि यामि सत्वरम् इतः स्रोतस् तमालाकुलं
नीरन्ध्रास् तनुम् आलिखन्तु जरठच्छेदानलग्रन्थयः ॥५४१॥
मूलम् - ५४१

विद्यायाः । (द।रू। २।२१अ, शा।प। ३७६९, सू।मु। ८७।७, सु।र। ८०७)
विश्वास-प्रस्तुतिः - ५४२
उपान्तप्रोन्मीलद्विटपिजटिलां कौतुकवती
कदाचिद् गन्तासि प्रियसखि न शिप्रातटभुवम् ।
यद् अस्यां मुक्तास्रग्विहितसितभोगिभ्रमतया
वयोरूढः केकी लिखति नखरेण स्तनतटम् ॥५४२॥
मूलम् - ५४२

मधोः ।
विश्वास-प्रस्तुतिः - ५४३
षष्ठ्यां गन्तुम् अरण्यम् अस्मि चकिता यत्रार्चयन्ती द्रुमान्
दृष्ट्वैवापतिता भुजङ्गमभितो व्यस्तापयान्ती ततः ।
विश्लिष्यद्वसना विकीर्णकवरी जातक्षता कण्टकैः
कास्मीति स्वम् अहं न वेद सखि तद् वन्दे व्रतं तादृशम् ॥५४३॥
मूलम् - ५४३

गोविन्दस्वामिनः ।
विश्वास-प्रस्तुतिः - ५४४
अन्यासां न किम् अस्ति वेश्मनि वधूः कैवं निशि प्रावृषि
प्रैति प्रान्ततडागम् अम्ब गृहिणि स्वस्थासि मे’वस्थया ।
भग्नो’यं वलयो घटो विघटितः क्षण्णा तनुः कण्टकैर्
आक्रान्तः स तथा भुजङ्गहतकः कष्टं न यद् दष्टवान् ॥५४४॥
मूलम् - ५४४

पातुकस्य ।
विश्वास-प्रस्तुतिः - ५४५
अम्ब श्वश्रु यदि त्वया हतशुकः संवर्धनीयस् तदा
लौहं पञ्जरम् अस्य दुर्णयवतो गाढान्तरं कारय ।
अद्यैवं वदरीनिकुञ्जकुहरे संलीनम् अन्विष्यती
दष्टा यन् न भुजङ्गमेन तदतिश्रेयः किम् एभिः क्षतैः ॥५४५॥
मूलम् - ५४५

कस्यचित् । (सु।र। ८१८)