विश्वास-प्रस्तुतिः - ५२१
आविर्भूतविपाण्डुरच्छवि मुखं क्षामा कपोलस्थली
सव्यापारपरिश्लथे च नयने’नुत्साहमुग्धं वपुः ।
श्यामीभूतमुखं पयोधरयुगं मध्यः स्वभावोच्छ्रितो
जातान्यैव मनोहराकृतिर् अहो गर्भोदये सुभ्रुवः ॥५२१॥
मूलम् - ५२१
आविर्भूतविपाण्डुरच्छवि मुखं क्षामा कपोलस्थली
सव्यापारपरिश्लथे च नयने’नुत्साहमुग्धं वपुः ।
श्यामीभूतमुखं पयोधरयुगं मध्यः स्वभावोच्छ्रितो
जातान्यैव मनोहराकृतिर् अहो गर्भोदये सुभ्रुवः ॥५२१॥
कालिदासनन्दिनः ।
विश्वास-प्रस्तुतिः - ५२२
हारिद्रम् अम्बरम् उपान्तनिबद्धचक्रम्
एकं कुलस्थितिवशाद् दधती प्रियासौ ।
तत्कालमङ्गलसमाचरणप्रयत्न
व्यासिद्धकेलिर् अपि मङ्गम् आतनोति ॥५२२॥
मूलम् - ५२२
हारिद्रम् अम्बरम् उपान्तनिबद्धचक्रम्
एकं कुलस्थितिवशाद् दधती प्रियासौ ।
तत्कालमङ्गलसमाचरणप्रयत्न
व्यासिद्धकेलिर् अपि मङ्गम् आतनोति ॥५२२॥
तस्यैव ।
विश्वास-प्रस्तुतिः - ५२३
मृदासक्ता हृद्यं स्थगयति मुखं चुम्बति मयि
स्तनौ पाण्डुश्यामौ मम करतलाद् आक्षिपति च ।
कृते गर्भालापे विशदहसितं रक्षति रुषा
प्रिया सर्वाकारं विशति हृदयं वल्लभतया ॥५२३॥
मूलम् - ५२३
मृदासक्ता हृद्यं स्थगयति मुखं चुम्बति मयि
स्तनौ पाण्डुश्यामौ मम करतलाद् आक्षिपति च ।
कृते गर्भालापे विशदहसितं रक्षति रुषा
प्रिया सर्वाकारं विशति हृदयं वल्लभतया ॥५२३॥
कर्णाटदेवस्य ।
विश्वास-प्रस्तुतिः - ५२४
अलसमधुरा स्निग्धा दृष्टिर् घनत्वम् उपागता
किसलयरुचिर् निस्ताम्बूलस्वभावधरोधरः ।
त्रिवलिवलया लेखोन्नेया घटन्त इवैकतः
प्रकृतिसुभगा गर्भेणासौ किम् अप्य् उपपादिता ॥५२४॥
मूलम् - ५२४
अलसमधुरा स्निग्धा दृष्टिर् घनत्वम् उपागता
किसलयरुचिर् निस्ताम्बूलस्वभावधरोधरः ।
त्रिवलिवलया लेखोन्नेया घटन्त इवैकतः
प्रकृतिसुभगा गर्भेणासौ किम् अप्य् उपपादिता ॥५२४॥
तस्यैव ।
विश्वास-प्रस्तुतिः - ५२५
परिणतशरकाण्डा पाण्डुरा गण्डभित्तिः
कुचकलसमुखश्रीः कालिमानं दधाति ।
व्यपनतकृशभावं पीनताम् एति मध्यं
वपुर् अतिशयगौरं गर्भम् आविष्करोति ॥५२५॥
मूलम् - ५२५
परिणतशरकाण्डा पाण्डुरा गण्डभित्तिः
कुचकलसमुखश्रीः कालिमानं दधाति ।
व्यपनतकृशभावं पीनताम् एति मध्यं
वपुर् अतिशयगौरं गर्भम् आविष्करोति ॥५२५॥
पशुपतिधरस्य ।