००५ मुग्धा

विश्वास-प्रस्तुतिः - ४९६

वारं वारम् अनेकधा सखि मया चूतद्रुमाणां वने
पीतकर्णदरीप्रणालवलितः पुंस्कोकिलानां ध्वनिः ।
तस्मिन्न् अद्य पुनः श्रुतिप्रणयिनि प्रत्यङ्गम् उत्कम्पितं
तापश् चेतसि नेत्रयोस् तरलता कस्माद् अकस्मान् मम ॥४९६॥

मूलम् - ४९६

भोजदेवस्य । (सु।र। ३५०)

विश्वास-प्रस्तुतिः - ४९७

वविर् एव मलयमरुतो जगुर् एव पिकाः परारि च परुच् च ।
उत्कण्ठाभरतरलं सखि मानसम् ऐषमः किम् इदम् ॥४९७॥

मूलम् - ४९७

वविर् एव मलयमरुतो जगुर् एव पिकाः परारि च परुच् च ।
उत्कण्ठाभरतरलं सखि मानसम् ऐषमः किम् इदम् ॥४९७॥

कालिदासस्य ।

विश्वास-प्रस्तुतिः - ४९८

सा पत्न्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैर् अच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलम् एव रोदिति लुठल्लोलालकैर् अश्रुभिः ॥४९८॥

मूलम् - ४९८

अमरोः [अमरु २६]

विश्वास-प्रस्तुतिः - ४९९

ध्रुवम् उदधितटीषु वल्लयस् ता
यद् उदिततन्तुचयैर् भवन्ति काञ्च्यः ।
इह हरिणदृशः फलैर् यदीयैर्
विदधति मौक्तिकनाम्भिश् च हारान् ॥४९९॥

मूलम् - ४९९

ध्रुवम् उदधितटीषु वल्लयस् ता
यद् उदिततन्तुचयैर् भवन्ति काञ्च्यः ।
इह हरिणदृशः फलैर् यदीयैर्
विदधति मौक्तिकनाम्भिश् च हारान् ॥४९९॥

राजशेखरस्य । (सू।मु। ८६।३)

विश्वास-प्रस्तुतिः - ५००

यावद् यावत् कुवलयदृशा मृज्यते दन्तराजिस्
तावत् तावद् द्विगुणम् अधरच्छायया शोणशोचिः ।
भूयो भूयः प्रियसहचरीदर्शितादर्शभित्तौ
दृष्ट्वा दृष्ट्वा न विरमयते पाणिम् अद्यापि मुग्धा ॥५००॥

मूलम् - ५००

देवबोधस्य ।