विश्वास-प्रस्तुतिः - ४९१
मध्ये हेमलतं कपित्थयुगलं प्रादुर्बभूव क्रम
प्राप्तौ तालफलद्वयं तद् अभवन् निःसन्धि भावस्थितम् ।
पश्चाद् बद्धसमुन्नतिव्यतिकरं सौवर्णकुम्भद्वया
कारेण स्फुटम् एव तत्परिणतं क्वेदं वदामोद्भुतम् ॥४९१॥
मूलम् - ४९१

वेतोकस्य । (सु।र। ३८७)
विश्वास-प्रस्तुतिः - ४९२
दृष्टा काञ्चनयष्टिर् अद्य नगरोपान्ते भ्रमन्ती मया
तस्याम् अद्भुतम् एकपद्मम् अनिशं प्रोत्फुल्लम् आलोकितम् ।
तत्रोभौ मधुपौ तथोपरि तयोर् एकोष्टमीचन्द्रमास्
तस्याग्रे परिपुञ्जितेन तमसा नक्तं दिवं स्थीयते ॥४९२॥
मूलम् - ४९२

तस्यैव (सु।र। ३८८)
विश्वास-प्रस्तुतिः - ४९३
दृष्टाः शैवलमञ्जरीपरिचिताः सिन्धोश् चिरं वीचयो
रत्नान्य् अप्य् अवलोकितानि बहुशो युक्तानि मुक्ताफलैः ।
यत् तु प्रोज्झितलाञ्छने हिमरुचाव् उन्निद्रम् इन्दीवरं
संसक्तं च मिथो रथाङ्गमिथुनं तत् कुत्र दृष्टं पुनः ॥४९३॥
मूलम् - ४९३

रथाङ्गस्य । (सु।र। ४५२, विक्रमादित्यस्य)
विश्वास-प्रस्तुतिः - ४९४
लावण्यसिन्धुर् अपरैव हि केयम् अत्र
यत्रोत्पलानि शशिना स्ह सम्प्लवन्ते ।
उन्मज्जति द्विरदकुम्भतटी च यत्र
यत्रापरे कदलकाण्डमृणालदण्डाः ॥४९४॥
मूलम् - ४९४
लावण्यसिन्धुर् अपरैव हि केयम् अत्र
यत्रोत्पलानि शशिना स्ह सम्प्लवन्ते ।
उन्मज्जति द्विरदकुम्भतटी च यत्र
यत्रापरे कदलकाण्डमृणालदण्डाः ॥४९४॥
विक्रमादित्यस्य । (स।क।आ। ४।१०२, सू।मु। ४९।१७, सु।र। ४२६)
विश्वास-प्रस्तुतिः - ४९५
किं कोप्य् एष मनोभ्रमः किम् अथवा जातो दृशां मादृशां
दोषस् तैमिरिकः किम् एष सुमहानुत्पातनामा विधिः ।
यन् नीलाञ्जनसन्निभोत्पलदलद्वन्द्वोल्लसत्पञ्चम
व्याहारी दिवसे च वर्धितरुचिर् गेहे शशी पार्वणः ॥४९५॥
मूलम् - ४९५

कस्यचित् ।