विश्वास-प्रस्तुतिः - ४७६
अचञ्चलं मुग्धम् उदञ्चितं दृशोर्
अनुन्नतं श्रीमदुरो मृगीदृशः ।
अभङ्गुराकूतवती गतिर् भ्रुवोर्
अबद्धलक्ष्यं क्वचिद् उत्कम् आन्तरम् ॥४७६॥
मूलम् - ४७६
अचञ्चलं मुग्धम् उदञ्चितं दृशोर्
अनुन्नतं श्रीमदुरो मृगीदृशः ।
अभङ्गुराकूतवती गतिर् भ्रुवोर्
अबद्धलक्ष्यं क्वचिद् उत्कम् आन्तरम् ॥४७६॥
गोसोकस्य ।
विश्वास-प्रस्तुतिः - ४७७
अप्रकटवर्तितस्तनमण्डलिकानिभृतचक्रदर्शिन्यः ।
आवेशयन्ति हृदयं स्मरचर्यागुप्तयोगिन्यः ॥४७७॥
मूलम् - ४७७
अप्रकटवर्तितस्तनमण्डलिकानिभृतचक्रदर्शिन्यः ।
आवेशयन्ति हृदयं स्मरचर्यागुप्तयोगिन्यः ॥४७७॥
तस्यैव ।
विश्वास-प्रस्तुतिः - ४७८
यूनां पुरः सपदि किञ्चिद् उपेतलज्जा
वक्षो रुणद्धि मनसैव न दोर्लताभ्याम् ।
प्रौढाङ्गनाप्रणयकेलिकथासु बाला
शुश्रूषुर् अन्तर् अथ बाह्यम् उदास्त एव ॥४७८॥
मूलम् - ४७८
यूनां पुरः सपदि किञ्चिद् उपेतलज्जा
वक्षो रुणद्धि मनसैव न दोर्लताभ्याम् ।
प्रौढाङ्गनाप्रणयकेलिकथासु बाला
शुश्रूषुर् अन्तर् अथ बाह्यम् उदास्त एव ॥४७८॥
श्रीहनूमतः ।
विश्वास-प्रस्तुतिः - ४७९
अहम् अहमिकाबद्धोत्साहं रतोत्सवशंसिनि
प्रसरति मुहुः प्रौढस्त्रीणां कथामृतदुर्दिने ।
कलितपुलका सद्यः स्तोकोद्गतस्तनकोरके
वलयति शनैर् बाला वक्षःस्थले तरलां दृशम् ॥४७९॥
मूलम् - ४७९
अहम् अहमिकाबद्धोत्साहं रतोत्सवशंसिनि
प्रसरति मुहुः प्रौढस्त्रीणां कथामृतदुर्दिने ।
कलितपुलका सद्यः स्तोकोद्गतस्तनकोरके
वलयति शनैर् बाला वक्षःस्थले तरलां दृशम् ॥४७९॥
धर्माशोकदत्तस्य ।
विश्वास-प्रस्तुतिः - ४८०
लावण्यामृतसान्द्रसिन्धुलहरीसंसिक्तम् अस्या वपुर्
जातस् तत्र नवीनयौवनकलालीलालतामण्डपः ।
तत्रायं स्पृहणीयशीतलतरुच्छायाप्रसुप्तोत्थितः
सम्मुग्धो मधुबान्धवः स भगवान् अद्यापि निद्रालसः ॥४८०॥
मूलम् - ४८०
लावण्यामृतसान्द्रसिन्धुलहरीसंसिक्तम् अस्या वपुर्
जातस् तत्र नवीनयौवनकलालीलालतामण्डपः ।
तत्रायं स्पृहणीयशीतलतरुच्छायाप्रसुप्तोत्थितः
सम्मुग्धो मधुबान्धवः स भगवान् अद्यापि निद्रालसः ॥४८०॥
भिक्षोः । (सु।र। ३५९)